2023-04-05 06:33:41 by jayusudindra
This page has been fully proofread once and needs a second look.
असत्कृतिः कुकविप्रबन्ध: चौर्येण स्तैन्येन संपादिता रतिक्रिया संभोगव्यापार: स इव गुरौ मात्राद्वयात्मके वर्णे अक्षरे लघुत्वं एकमात्रा- कालोच्चार्यत्वं लघुस्थानविन्यसनमिति भावः । अन्तस्थस्य गुरुत्वेऽपि कुकविनिबन्धनेषु लघुस्थानविन्यसने तस्य गुरुत्वेनोच्चारणानर्हत्वादिति भावः । एवं लघॊ वर्णे गुरुत्वमप्यूह्यम् । अन्यत्र गुरौ उत्कृष्टे वर्णे ब्रह्मक्षत्रादौ आभिजात्यादिगुणयुक्त इति भावः । लघुत्वं अल्पत्वं हेयतामिति यावत् । कुरुते करोति । श्लेषालङ्कारः । यथेयं चौर्यरतिर्निन्द्या तथैव कुकविप्रबन्धा इत्युपमालङ्कारध्वनिः ॥ २४ ॥
अधो गुणानाकलयन्नशेषानसज्जनः पद्मवदात्तगन्धः ।
राज्ञः पुरोदर्शितमौनमुद्रः प्रायेण जायेत जलानुषङ्गी{^१} ॥ २५ ॥
अध इति - असज्जनः खलः कुकविश्व । पद्मवत् कमलवत् । निखिलान्
गुणान् दयादीन् श्लेषादींश्च । अध: निकृष्टत्वेन । आकलयन् तिरस्कुर्वन् सन् । स्वयमुक्तगुणविकल: परगतमपि गुणं दोषत्वेन व्यपदिशन्नित्यर्थ: । अन्यत्र गुणान् मृणालतन्तून्, अध: अधोभागे, आकलयन् कुर्वन्, पद्मा- दधोदेश एव तन्तूनां मृणालान्तरवस्थानादिति भावः । तथा राज्ञः नृपस्य, पुरः पुरस्तात्, राज्ञां सभास्विति भावः । दर्शिता प्रकटिता मौनस्य असंभाषणस्य मुद्रा अधरोष्टमेलनं येन तादृशः । प्रत्यक्षे साधुत्वं मौनेनाभिनीय परोक्षे पैशुन्यमाचरन् सभायां स्वीयवागुत्सर्गे निजं मौढ्यं प्रकटितं स्यादिति मौनेन वैदुष्यमभिनयन्निति च भावः । अन्यत्र राज्ञः चन्द्रस्य पुर: निशायामिति यावत् । दर्शिता मौनं अधरोष्ठतयाध्यवसित- दलसंमेलनरूपमुद्राचिह्नं चन्द्रोदये पद्मपरिज्ञाननिमित्तं येन तादृशः । तथा जडै: अनुषङ्ग: संसर्ग: सोऽस्यास्तीति तादृशः साधुभिः महाकविभिश्च दूरापास्त इति भावः । अन्यत्र डलयोरभेदात् सलिलसंसर्गी उक्तविधया
कमलसाम्यं भजन्नित्यर्थः। प्रायेण भूयसा आत्तगन्धः अभिभूत: । "आत्तगन्धोऽभिभूत: स्यात् " इत्यमरः । जायेत भवेत् भवेदेवेति भावः । "जनी प्रादुर्भावे " इति धातोरात्मने पदे लिङ् । अन्यत्र आत्तः प्राप्तः विकाससमयसंपन्न इति भावः ।
गन्धः परिमळो येन तादृशः पद्मस्येव अधोगुणाकलनादिमतः खलस्य कुकवेश्च
"
{^1} G. जडानुषङ्गी; the commentator also seems to prefer this reading.