2023-04-05 06:22:18 by jayusudindra
This page has been fully proofread once and needs a second look.
रुक्मिणीकल्याणे सव्याख्याने
।
अधो गुणानाकलयन्नशेषानसज्जनः पद्मवदात्तगन्धः ।
राज्ञः पुरोदर्शितमौनमुद्रः प्रायेण जायेत जलानुषङ्गी{^१} ॥ २५ ॥
अध इति - असज्जनः खलः कुकविश्व । पद्मवत् कमलवत् । निखिलान्
गुणान् दयादीन् श्लेषादींश्च । अध: निकृष्टत्वेन । आकलयन् तिरस्कुर्वन् सन् ।
।
कमलसाम्यं भजन्नित्यर्थः। प्रायेण भूयसा आत्तगन्धः अभिभूत: । "आत्तगन्धोऽ
गन्धः परिमळो येन तादृशः पद्मस्येव अधोगुणाकलनादिमतः खलस्य कुकवेश्च
"
{^1} G. जडानुषङ्गी; the commentator also seems to prefer this reading.