This page has been fully proofread once and needs a second look.

अथ प्रसङ्गात् विदुषां सहृदयानां च स्वकाव्योत्कर्षनिर्वाहकाणां
क्षेममाशास्ते-
निकष्य मेधानिकषोपलेषु सुवर्णतत्त्वं{^१} परिशोधयन्तः ।
अलंक्रियार्थं सुदृशामवन्यां कामं कलादास्सुखिनो भवन्तु ॥ २८ ॥निकष्येति – अवन्यां भूमौ । कला : विद्या: साहिती: स्वीयाः परकीयाश्च
ददति शिष्येभ्यः प्रयच्छन्ति; आददति विजानन्तीति वा विद्वांसः सहृदयाश्च ।
अन्यत्र कला: कनकोत्कर्षापकर्षनिमित्तभूता वर्णापरनामान: ता: आददति
निकषोपले रेखाकारेण संगृह्णन्ति । विजानन्तीति वा स्वर्णकारा वणिजो वा। सुष्टु पश्यन्तीति सुदृशः। गुणदोषावगमनसमर्थाः पण्डिताः सहृदयाः। तेषां अलंक्रियार्थं भूषणार्थं सहृदयाह्लादाय कवेस्तत्सूक्तीनां वा अनुमोदाय च । अन्यत्र सुदृशां कामिनीनां अलंक्रियार्थं केयूराङ्गदकङ्कणादिरचनार्थम् । मेधा प्रतिभैव निकषोपलाः शाणोपलाः तेषु निकष्य उद्घृष्य प्रज्ञया परिचिन्त्येति भावः । सुशोभनानां, अर्थतः शब्दतश्च । मधुराणां वर्णानां अक्षराणाम् । अन्यत्र सुवर्णानां कनकानां तत्त्वं सगुणत्वनिर्गुणत्वादि स्वरूपम् । अन्यत्रापाततः स्वर्णवत्प्रतीयमानेभ्यः त्रपुप्रभृतिभ्यो विशेषं परिशोधयन्तः विचारयन्तः प्रपञ्चयन्तश्च सन्तः कामं अत्यन्तं सुखिनः कुशलिन: भवन्तु सन्तु निवसन्त्विति यावत् । भवतेराशिषि लोट् । अस्मत्कवितोपलालनं तद्दूषकदुर्जननिरसनं च मा भूत् । तादृशाः
कलादाः परं भूमौ निवसन्तु । तावतैवास्मदभीष्टसिद्धिः स्वयमेव संपत्स्यत इति भावः । श्लेषानुप्राणितं सावयवं रूपकमलंकारः ॥ २८ ॥
अथ लोकोपकारिणः साधुजनानभिष्टौति-
राज्ञः प्रसादं विरचय्य शश्वदङ्कूरयन्तीकुमुदानुकूल्यम् ।
समादधाना बहुधान्यवृद्धिं सतां सभा भाति शरन्निकाशा ॥२९॥
राज्ञ इति ~ सतां साधूनां विदितवेदितव्यानां अखिलदयाद्यष्टगुणसंपन्नाना-
मिति भावः । सभा समाज : राज्ञो नृपस्य प्रसादं चित्तनैर्मल्यं सर्वभूतानु कंपामिति
1 G.{^१} वर्ण्यमत्त्वं ।