This page has not been fully proofread.

प्रथमस्सर्गः
 
अथ प्रसङ्गात् विदुषां सहृदयानां च स्वकाव्योत्कर्षनिर्वाहकाणां
क्षेममाशास्ते-
३७
 
निकष्य मेधानिकषोपलेषु सुवर्णतत्त्वं परिशोधयन्तः ।
अलंक्रियार्थी सुदृशामवन्यां कामं कलादास्सुखिनो भवन्तु ॥ २८ ॥
 
निकष्येति – अवन्यां भूमौं । कला : विद्या: साहिती: स्वीयाः परकीयाश्च
ददति शिष्येभ्यः प्रयच्छन्ति; आदति विजानन्तीति वा विद्वांसः सहृदयाश्च ।
अन्यत्र कला: कनकोत्कर्षापकर्षनिमित्तभूता वर्णापरनामान: ता: आददति
निकषोपले रेखाकारेण संगृह्णन्ति । विजानन्तीति वा स्वर्णकारा वणिजो वा ।
सुष्टु पश्यन्तीति सुदृशः। गुणदोषावगमनसमर्थाः पण्डिताः सहृदयाः। तेषां अलं-
क्रियार्थी भूषणार्थी सहृदयालादाय कवेस्तत्सूक्तीनां वा अनुमोदाय च । अन्यत्र
सुदृशां कामिनीनां अलंक्रियार्थ केयूराङ्गदकङ्कणादिरचनार्थम् । मेधा प्रतिभैव
निकषोपलाः शाणोपलाः तेषु निकष्य उद्धृष्य प्रज्ञया परिचिन्त्येति भावः ।
सुशोभनानां, अर्थतः शब्दतश्च । मधुराणां वर्णानां अक्षराणाम् । अन्यत्र सुवर्णानां
कनकानां तत्त्वं सगुणत्वनिर्गुणत्वादिस्वरूपम् । अन्यत्रापाततः स्वर्णवत्प्रतीय-
मानेभ्यः त्रपुप्रभृतिभ्यो विशेषं परिशोधयन्तः विचारयन्तः प्रपञ्चयन्तश्च सन्तः
कामं अत्यन्तं सुखिनः कुशलिन: भवन्तु सन्तु निवसन्त्विति यावत् । भवतेरा-
शिषि लोट् । अस्मत्कवितोपलालनं तद्दूषकदुर्जननिरसनं च मा भूत् । तादृशाः
कलादाः परं भूमौ निवसन्तु । तावतैवास्मदभीष्टसिद्धिः स्वयमेव संपत्स्यत इति
भावः । श्लेषानुप्राणितं सावयवं रूपकमलंकारः ॥ २८ ॥
 
अथ लोकोपकारिणः साधुजनानभिष्टौति-
राज्ञः प्रसादं विरचय्य शश्वदक्रूरयन्तीकुमुदानुकूल्यम् ।
समादधाना बहुधान्यवृद्धिं सतां सभा भाति शरन्निकाशा ॥२९॥
 
राज्ञ इति ~ सतां साधूनां विदितवेदितव्यानां अखिलदयाद्यष्टगुणसंपन्नाना-
मिति भावः । सभा समाज : राज्ञो नृपस्य प्रसादं चित्तनैर्मल्यं सर्वभूतानुकंपामिति
1 G. वर्ण्यमत्त्वं ।