This page has been fully proofread once and needs a second look.

सहैव करणीयतया विधानात् दोषाभावस्य विगुणत्वेनोपचारात् खलेषु दोषोद्भावने साधुषु तदभावप्रतीत्या तथाविधसाधुगुणवर्णनाविश्रान्तत्वाच्च कुकविनिन्दामाह -
शय्यारसालंकृतिरीतिवृत्तिवृत्तोज्झिता गूढपदप्रचारा ।
गुरौ च वर्णे{[^१}1] कुरुते लघुत्वमसत्कृतिश्चौर्यरतिक्रियेव ॥ २४ ॥
शय्येति —– शय्या पदानामानुगुण्येन विन्यासः । तदुक्तं "पदानुगुण्य-
विश्रान्तिः शय्या शय्येव संमता" इति । रसाः शृङ्गारादयः । अलंकृतयः
अनुप्रासोपमादयः । रीतयः वैदर्भीप्रभृतयः । तदुक्तम् "रीतिर्नाम गुणाश्लिष्टवर्णसंघाटना{ [^२}2] मता" इति । गुणा: माधुर्यौज:प्रभृतयः । वृत्तयः कैशिक्यादयः पूर्वोक्ताः । वृत्तानि मात्रावर्णघटिततया छन्दश्शास्त्र- विहिता- न्यार्यादीनि, तैः उक्तलक्षणः, उञ्झिता त्यक्ता, कथञ्चिद्रसादि- प्रतीतावपि अस्थाननिवेशविसदृशघटनादिना दूष्यतया यथोदितैस्तै- र्विहीनेति भावः । अन्यत्र शय्या तल्पः चौर्यरतौ तल्पादीनामसंभवात् । रसो राग: अभिरति- रित्यर्थः । निद्रादिना परवशासु परवनितासु प्रवर्तितस्य सुरतस्य नायिका- नुरागवैकल्यात् तस्य चैकत्रैवानुरागश्चेति रसाभासतया रसत्वाभावात् । तदुक्तम्- – "एकत्रैवानुरागश्चेत्तिर्यङ्म्लेच्छगतोऽपि वा । योषितां
बहुसक्तिश्च रसाभासस्त्रिधा मत : " इति । यद्वा रसाः द्रवाः कर्पूरकस्तूरी-
चन्दनादयः प्रकाशभिया तेषामसंभावितत्वत्त्; अलंकृतयः मञ्जीरनूपुर कङ्कणादयः शिञ्जितेङ्गितादिना प्रकाशभिया तेषामसंभवात् ; रीति: पातिव्रत्यपरनारीपराङ्मुखत्वादयः तादृशस्य तादृशकर्मणि प्रवृत्तेरेवा- भावादिति भावः; वृत्तिः वर्तनं यत्र क्वचन रमणीये देशे यथाभिल- षितावस्था नमिति भावः; वृत्तं समयाचार: ; एतैः उञ्झिता वर्जिता चौर्य- रतावमीषां उक्त विधा: असंभावितत्वात् तथा गूढः गुप्तः सहृदयानामप्य- वेद्यः, पदानां सुबन्ततिङन्तानां प्रचारो विश्रामस्थानं यस्यां तादृशी । अन्यत्र गूढः शब्दादिनाप्यन्ये यथा न विध्युः तथा मृदुतया प्रवर्तत इति भावः । पदयो: चरणयोः प्रचारो विन्यासो यस्यां तादृशी ईदृशी
 
 
 
{[^१}1].G. वर्गे.
 
{[^२}2] The printed text of the Pratāparudrīya reads पदसंघटना.