2023-04-05 14:45:00 by jayusudindra
This page has been fully proofread once and needs a second look.
तदुद्भूतेऽस्मिन् इन्दुत्वरूपणं गम्यत इत्येकदेशविवर्ति । इन्दुरिति पाठे समस्तवस्तुविषयकं सावयवरूपकं सुधाझरीसोदरेत्यार्थींचोपमा संसृष्टिः ॥ २२ ॥
अथात्मनः सहोदरमग्रजं गुरुमर्धनारीश्वरं प्रस्तोतुकाम: कवि: "आत्मनाम
गुरोर्नाम [नामाति] कृपणस्य च । श्रेयस्कामो न गृह्णीयात् " इति गुरुनाम ग्रहणनिषेधस्यानुवादरूपतया क्वचित् गुणीभावरूपतया वावश्याख्येयत्वे दोषाभावं मन्यमानः तदीयां वाचमेव स्तौति -
{[^१}1]विरिञ्चिकान्ताकरपद्मचञ्चद्विपञ्चिकानिक्वणवञ्चकश्रीः ।
षड्दर्शनी{[^२}2] केळिसखी चकास्ति वागर्धनारीश्वरवादिमौलेः ॥ २३॥
विरिञ्चिति — विरिञ्चिकान्तायाः सरस्वत्याः । "विरिञ्चिश्च विरिञ्चन: "
इत्यमरशेषः । करपद्मे पाणिपङ्कजे चञ्चन्त्याः चलन्त्याः वाद्यमानाया इति भावः । विप्रञ्चिकायाः वीणायाः कच्छपीनाम्न्याः । "सरस्वत्यास्तु कच्छपी" इत्यमरः । निक्वणस्य निनादस्य वञ्चिका वञ्चयित्री तद्विजेत्रीति यावत् । श्री: शोभा माधुर्यमिति भावः । यस्यास्तादृशी षण्णां दर्शनानां शास्त्राणां समाहारः षड्दर्शनी । इदं च सर्वविद्योपलक्षकं तस्याः केळिसखी विहारसहचरी तत्तन्त्रसिद्धान्तानुवर्तिनीति भावः । यद्वा षड्दर्शनी केळी सखी यस्या इति बहुव्रीहिः । तेन वाचः प्राधान्यं षड्दर्शन्या गुणीभावश्च व्यज्यते । तेन स्वैरादित्वरामपि तदीयां वाणीं सर्वाणि तन्त्राण्यनुवर्तन्त इति तस्य महामहिमत्वं व्यज्यते । अर्धनारीश्वरनाम्नः वादिनां विवादशीलानां विदुषां मौले: किरीटभूतस्य समस्तविद्वद्भिः शिरसोपलालितस्येत्यर्थः । वाक् वाणी चकास्ति भासते । " काश्ट दीप्तौ" इति धातो: लट् । अत्र साक्षात् गुरुनामसंकीर्तनस्यायुक्तत्वेऽपि वाचि गुणीभूतस्य कथं न दोषावहमिति तदीयवागनुधावनमिति मन्तव्यम् । अत्र करपद्ममित्युपमा ।
केळिसखीति वादिमौलेरिति च रूपके वृत्त्यनुप्रासश्चेति तेषां संसृष्टिः ॥ २३ ॥
एवं महाकविप्रशंसां विशिष्य सामान्येन चारचय्य सांप्रतं धर्मशास्त्रेषु
" कन्यादानं वृषोत्सर्ग: सदर्हः पापकुत्सनं " इति खलनिन्दायाः साधुप्रशंसया
{[^१}1].G. विरिञ्च.
{[^२}2] A and G. षड्दर्शिनी.
अथात्मनः सहोदरमग्रजं गुरुमर्धनारीश्वरं प्रस्तोतुकाम: कवि: "आत्मनाम
गुरोर्नाम [नामाति] कृपणस्य च । श्रेयस्कामो न गृह्णीयात् " इति गुरुनाम ग्रहणनिषेधस्यानुवादरूपतया क्वचित् गुणीभावरूपतया वावश्याख्येयत्वे दोषाभावं मन्यमानः तदीयां वाचमेव स्तौति -
षड्दर्शनी