This page has been fully proofread once and needs a second look.

रूपं येन तादृशः । विष्णुपक्षे दशसु मत्स्यकूर्मादिरूपेण दशविधेषु रूपकेषु मूर्तिषु । उच्चै: उत्कृष्टा अमानुषा वेदाहरणभूम्युद्धरणसमुद्र सेतुबन्धादय ऊहनीयाः। चर्मोत्सेधरूपतया स्वीयभुजशिखरस्थिताभ्यां शङ्खचक्राभ्यां सहैवोत्पन्नतया साक्षाद्विष्णोरंशरूपत्वेऽपि भाव्यमाने उक्तविधया दशविधरूपकाचरणमपि संवादिप्रमाणं भवतीति भावः । विश्वजिता विश्वजिदाख्येन मखेन ऋतुना विख्यातिमान् प्रसिद्धियुक्त: विश्वजिद्याजीति भुवनप्रसिद्ध इत्यर्थः । श्रीमान् अणिमाद्यष्टसिद्धिसम्पन्नः श्रीनिवास इति कृतनामा । अध्वरीणां यज्वनां सार्वभौमः श्रेष्ठः । क्षितौ भूम्याम् । भाति द्योतते । अखण्डभूवलयविख्यातो भवतीति भाव: । भातीति वर्तमानार्थकलट्प्रयोगात्तादृशे जीवत्येवानेन कविनाऽयं प्रबन्धो
निर्मित इति गम्यते । विष्णुसादृश्यवर्णनात् उपमा ॥ २१ ॥
अथात्मनो वैमात्रेयमग्रजं केशवदीक्षितं स्तौति -
गाधेयवंशाम्बुधिसंभवो यो वसिष्ठनिष्ठां विदधे लघिष्ठाम् ।
सुधाझरीसोदरवाग्विलासो दीव्यत्यसौ केशवदीक्षितेन्द्रः [^1] ॥ २२ ॥
गाधेयेति -गाधेयस्य विश्वामित्रस्य वंशः अन्वय एव अम्बुधि: सागरः
तस्मात् सम्भव उत्पत्तिर्यस्य, विश्वामित्रगोत्रज इत्यर्थः । यः केशवदीक्षितः ।
वसिष्ठस्य ब्रह्मसूनोर्मुनेः निष्टां नियमं विधिविहितानां कर्मणामवैकल्पे- नाचरणं निरन्तरतपस्थितिं वा तपसा चिन्तितार्थसंसाधनं वा । "निष्ठानिर्वहणं सम: " इत्यमरः । लघिष्टां अत्यन्तमल्पीयसीम् । "अतिशायने तमबिष्ठनौ " इति इष्टन् प्रत्ययः । विदधे व्यतानीत् । विपूर्वाद्दधातेः कर्तरि लिट् । विश्वामित्रवंशजोऽयं तस्य वसिष्ठात् पराभव- जनितमयश: प्रमाष्टुमिव वसिष्टं निष्ठया व्यजयत्किमिति भावः । सुधाझर्या: अमृतासारस्य सोदर : सहज : सदृक्ष इत्यर्थः । वाग्विलासः
सारस्वतोन्मेषः यस्य तादृशः स इत्यध्याहारः । सोऽसौ उक्तगुणसंपन्नः केशवनामा दीक्षितानां यज्वनां इन्द्रः श्रेष्ठः । दीक्षितेन्दुरिति पाठे दीक्षित एव इन्दुश्चन्द्र इत्यर्थः । दीव्यति विद्योतते । [^2] इन्दुरिति पाठे गाधेयवंशस्याम्बुधि- त्वरूपणेन

1 दीक्षितेन्दु: is another reading noted by the commentator.

2 The manuscript hasइन्द्र इति but it is evidently a mistake.