This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
३१
 
रूपं येन तादृशः । विष्णुपक्षे दशसु मत्स्यकूर्मादिरूपेण दशविधेषु रूपकेषु
मूर्तिषु । उच्चै: उत्कृष्टा अमानुषा वेदाहरणभूम्युद्धरणसमुद्र सेतुबन्धादय ऊह-
नीयाः। चर्मोत्सेधरूपतया स्वीयभुजशिखरस्थिताभ्यां शङ्खचक्राभ्यां सहैवोत्पन्न-
तया साक्षाद्विष्णोरंशरूपत्वेऽपि भाव्यमाने उक्तविधया दशविधरूपकाचरणमपि
संवादिप्रमाणं भवतीति भावः । विश्वजिता विश्वजिदाख्येन मखेन ऋतुना
विख्यातिमान् प्रसिद्धियुक्त: विश्वजिद्याजीति भुवनप्रसिद्ध इत्यर्थः । श्रीमान्
अणिमाद्यष्टसिद्धिसम्पन्नः श्रीनिवास इति कृतनामा । अध्वरीणां यज्वनां
सार्वभौमः श्रेष्ठः । क्षितौ भूम्याम् । भाति द्योतते । अखण्डभूवलयविख्यातो भवतीति
भाव: । भातीति वर्तमानार्थकलट्प्रयोगात्तादृशे जीवत्येवानेन कविनाऽयं प्रबन्धो

निर्मित इति गम्यते । विष्णुसादृश्यवर्णनात् उपमा ॥ २१ ॥
 

अथात्मनो वैमात्रेयमग्रजं केशवदीक्षितं स्तौति -
 

गाधेयवंशाम्बुधिसंभवो यो वसिष्ठनिष्ठां विदधे लघिष्ठाम् ।

सुधाझरीसोदरवाग्विलासो दीव्यत्यसौ केशवदीक्षितेन्द्रः ॥ २२ ॥
 

गाधेयेति -गाधेयस्य विश्वामित्रस्य वंशः अन्वय एव अम्बुधि: सागरः

तस्मात् सम्भव उत्पत्तिर्यस्य, विश्वामित्रगोत्रज इत्यर्थः । यः केशवदीक्षितः ।

वसिष्ठस्य ब्रह्मसूनोर्मुनेः निष्टां नियमं विधिविहितानां कर्मणामवैकल्येपे- नाचरणं
निरन्तरतपस्थितितिं वा तपसा चिन्तितार्थसंसाधनं वा । "निष्ठानिर्वहणं सम: "
इत्यमरः । लघिष्टां अत्यन्तमल्पीयसीम् । "अतिशायने तमबिष्ठनौ " इति इष्टन्
प्रत्ययः । विदधे व्यतानीत् । विपूर्वाद्दधातेः कर्तरि लिट् । विश्वामित्रवंशजोऽयं
तस्य वसिष्ठात् पराभव- जनितमयश: प्रमाष्टुमिव वसिष्टं निष्ठया व्यजयत्किमिति
भावः । सुधाझर्या: अमृतासारस्य सोदर : सहज : सदृक्ष इत्यर्थः । वाग्विलासः

सारस्वतोन्मेषः यस्य तादृशः स इत्यध्याहारः । सोऽसौ उक्तगुणसंपन्नः केशवनामा
दीक्षितानां यज्वनां इन्द्रः श्रेष्ठः । दीक्षितेन्दुरिति पाठे दीक्षित एव इन्दुश्चन्द्र
इत्यर्थः । दीव्यति विद्योतते । इन्दुरिति पाठे गाधेयवंशस्याम्बुधि- त्वरूपणेन

1 दीक्षितेन्दु: is another reading noted by the commentator.
 

 
2 The manuscript has
 
इन्द्र इति but it is evidently a mistake.