This page has been fully proofread once and needs a second look.

वैलक्षण्यं यैस्तादृशः । स्वनिबन्धनेष्वेकैकाध्यायेषु विभिन्नशृङ्गारादिरसभेदे-
नात्यन्तसुकुमारेषु सुकुमारातिप्रौढेषु प्रौढरूपतया सदृशपदसन्निवेशेन च विभिन्ना वृत्ती : प्रपञ्चयन्त इति भावः । तदुक्तम् " कैशिक्यारभटी चैव सात्त्वती भारतीति च । चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचका: ॥ अत्यन्तसुकुमारार्थसन्दर्भा कैशिकी मता । अत्युद्धतार्थसन्दर्भा वृत्तिरारभटी मता । ईषन्मृद्वर्थसन्दर्भा सात्त्वती वृत्तिरिष्यते । ईषत्प्रौढार्थसन्दर्भा वृत्ति- रारभटी मता ॥ अत्यन्तसुकुमारौ द्वौ शृङ्गारकरुणौ मतौ । अत्युद्धतरसौ रौद्रबीभत्सौ परिकीर्तितौ । हास्यशान्ताद्भुताः किञ्चित्सुकुमारा: प्रकीर्तिताः। ईषत्प्रौढौ समाख्यातौ रसौ वीरभयानकौ ॥ अतिप्रौढस्तु सन्दर्भस्संयुक्तपरुषाक्षरः । ईषत्प्रौढस्त्वसंयुक्तैस्तैरेव परिकल्पितः ॥ अत्यन्तसुकुमारोऽयमयुक्तललिताक्षरैः । संयुक्तैर्ललितैरीषत्सुकुमार
उदाहृतः ॥ " इति । अन्यत्र, सर्गेषुसर्गेषु प्रतिब्रह्मसृष्टि । विचित्राणां नाना- विधानाम् । तत्तद्वृत्तानां तत्तज्जीवराश्यनुष्ठितपूर्वजन्मसुकृतदुष्कृतानाम्, अनुरोधेन अनुवर्तनेन, तत्तत्प्रारब्धकर्मानुसारेण । यत्नं विनैव सङ्कल्प- मात्रेणेति भावः । व्यक्तं विस्पष्टतया । व्यवस्थापितः निर्वर्तितः वृत्तीनाम् जीवनानां अयाचितादीनां भेदः वैचित्र्यं यैस्ते । परे प्रत्येकनामग्रहणपूर्वकं प्रतिपादितेभ्यः कविभ्योऽन्ये । अन्यत्र, परे मुख्या: निखिलप्रपञ्चनिर्मातारो विधातार: । वाचां वाग्रूपाणां साहितीनां अधिपाः प्रवर्तकाः कवय इत्यर्थ: । वाचां सरस्वतीनां अधिपा नायकाः पितामहाः प्रतिब्रह्मप्रलयवेधसां भारतीनां च विभिन्नतया बहुवचनम् । प्रथन्तां प्रख्याता भवन्तु । "प्रथ प्रख्याने" इति धातोरात्मनेपदे लोट् । प्रकृताप्रकृत [श्लेष:] विधातॄणामपि विवक्षितत्वे प्रकृतोभयश्लेषः, प्रकृतार्थध्वनिर्वा ॥ १९ ॥
अथ कविः स्वात्मनः पितरं श्रीनिवासाध्वरिनामानं रत्नखेटदीक्षित इति
जगत्सु प्रख्यातं द्वाभ्यां कुळकेनाह-
भाति क्षितौ ' [^1]वासरभासुरोच्चैः प्रदीपचिह्नो भगवत्प्रपन्नः ।
अशेषभाषाकविताप्रवीणो वादोद्भटो व्याकृतसर्वतन्त्रः ॥ २० ॥

[^
1] G. भासुरवासरोच्चै:.