This page has been fully proofread once and needs a second look.

२८
 
रुक्मिणीकल्याणे सव्याख्याने
 
दयः सर्वे निर्मला भवन्तीति प्रसिद्धम् । जडाशयानां मन्दमतीनाम् सारस्वत -
सारानभिज्ञानामिति भावः । हृदयं चित्तम् कर्तृप्रसादं नैर्मल्यं कविहृदय-

परिज्ञानकौशलं स्वीयकवितायां क्लिष्टत्वमन्तरा सरळत्वं च यातितमां विशेषतो
भजति । अतिमन्दानपि स्वप्रतिभाप्रागल्भ्यादीन् सर्वविद्यापारगान् करोतीति भावः ।
"या प्रापणे" इति धातोर्लडन्तादतिशयार्थे "तिङश्च " इति सूत्रेण तमबन्तात्
"किमेत्तिङव्ययवाधादाम्वद्रव्यप्रकर्षे " इत्याम्प्रत्ययः । अन्यत्र डलयोर भेदात्
जलाशयानां सरित्कासारादीनां हृदयं आन्तर- भागोऽपीत्यर्थः । प्रसादं
नैर्मल्यं यातितमाम्, सारस्वतस्य साहित्यस्य मर्म सारं वेत्तीति तादृशः । अन्यत्र
सारस्वतं समुद्रसम्बन्धि मर्म सर्वसारं वेत्तीति तादृशः । सप्तानामपि सागराणा-
मगस्त्येनाचान्तत्वादिति भावः । स एष ईदृशमहिमवत्तया प्रसिद्धः अगस्त्यः
अगस्त्यनामा कविः कुम्भसम्भवश्च विदुषां कवीनां ज्ञानिनां च मौलौ शिरसि
विभाति भासते । सकल- विद्वन्मण्डलोपलालितो भवतीति भावः । प्रकृता-
प्रकृतश्लेषः ॥ १८ ॥
 

अथ सर्वेषां कवीनामिह प्रशंसनीयत्वेऽपि प्रत्येक प्रशंसायाः कवीनामा-

नन्त्येन दुस्साधत्वं मन्वान: सामान्येन सर्वान् कवीन् प्रस्तौति -
 

सर्गेषुसर्गेषु विचित्रतत्तद्द्वृत्तानुरोधेन विनैव यत्नम् ।
 

व्यक्तं व्यवस्थापितवृत्तिभेदाः परे च वाचामधिपाः प्रथन्ताम् ॥१९॥
 
----
 
"
 

सर्गेष्विति — सर्गेषुसर्गेषु प्रत्यव्ध्यायम् । "सर्ग:स्वभावनिर्मोक्षनिश्चयाध्याय-
व्याय

सृष्टिषु" इत्यमरः । "नित्यवीप्सयो: " इति वीप्सायां द्विरुक्तिः, एकं पदम् ।

विचित्राणां नानाविधानां तेषां तेषां च वृत्तान्तानां चरित्राणां वसन्ततिलका-

दीनां च अनुरोधेन अनुवर्तनेन अविरोधेनेत्यर्थः । प्रतिपाद्यरसानुगुण्येनेति

भाव: । यत्नं प्रयत्नं तत्तदनुगुणपदान्वेष[ण] प्रयासम् । विनेव अन्तरैव ।

वश्यवाचां रसानुगुणा वाचः स्वयमेव वदनान्निस्सरन्तीति भावः । व्यक्तं स्फुटं
यथा तथा । व्यवस्थापितः प्रपञ्चितः, वृत्तीनां कैशिक्यादीनाम्, भेद:
 

 
1 The original manuscript has
 
वृत्तिषु and it has been changed

on the authority of the edition printed with Bhānuji Dīkṣita's

commentary.