This page has been fully proofread once and needs a second look.

दमुदितानिति भावः । अन्यत्र रसानां सलिलानां ऊर्मिषु मग्नान् स्वीय
चरणाङ्गुष्ठनखनिर्भिन्नविध्यण्डविनिसृतस्वर्गङ्गातरङ्गसंवलितानितिभावः । रचयन् कुर्वन् । तथा दूरीकृत: दूरनिरस्त: उन्मेष: विकास : प्रचार इति यावत् येषां तादृशानि । दुरीहाणां मन्दमतीनां कुकवीनामिति भावः । काव्यानि प्रबन्धा येन तादृशश्च सन् । अस्य कवितारसानुभवे कुकविप्रबन्धा निरस्ता भवन्तीति भावः । अन्यत्र दूरीकृत: निराकृतः, अपुनरुद्भवं यथा तथा स्वरूपनाशं गमित इति भावः । उन्मेष: चक्षुरुन्मीलनं यस्य तादृशः । अत एव दुरीहः भाविकार्यविचारविधुरः । काव्यः शुक्रः । "शुक्रो दैत्यगुरुः
काव्यः" इत्यमरः । येन तादृशः काणीकृतभार्गव इति भावः । अत्र वामनावतारे पदत्रयपरिमितां भुवं याचते भगवते तां प्रदातुमुद्यते बलौ तत्कर्मविदितवता भार्गवेण प्रतिषिद्धेऽपि प्रदानमण्यसंमन्यमाने दातुं प्रवृत्ते कुण्डिजलनिर्गममार्गे चक्षुर्गोळेन पिहिते सति तत्कर्मविजानता वामनेन कुशाग्रेण कुण्डिगळद्वारनिहित नयनगोळमपच्छिन्नमभूत् । तदारभ्य भार्गव: काण इति कथात्रानुसन्धेया । समुन्नता सर्वोत्कृष्टा श्रीः वाग्विभूतिः यस्य तादृशः । अन्यत्र समुन्नता सत्यलोकादुपरि ब्रह्माण्डखर्परपर्यन्त- मुछ्रिता श्री: चरणशोभा यस्य तादृशः । सः प्रसिद्धो वामनः वामनाख्यः कविः त्रिविक्रमश्च । भाति दीव्यति । प्रकृताप्रकृतश्लेष:, भगवतोऽपि कीर्तनात् । विवक्षितत्वे तु श्लेष: ध्वनिर्वा ॥ १७ ॥
अथ अगस्त्यकविं प्रस्तौति-
जडाशयानां [^1] हृदयं जगत्यां यस्योदयाद्यातितमां प्रसादम् ।
स एव [^2] सारस्वतमर्मवेदी विभाति मौलौ विदुषामगस्त्यः ॥ १८ ॥
जलेति — यस्य अगस्त्यस्य कुम्भयोनेश्च उदयात् उत्पत्तेः निशास्वप्रकाश- नाच्च नक्षत्रवत् खगोळगतस्यागस्त्यापि मरीचिभिर्वा मेरुणा वा तिरोधान-
समय एवमतिरोहितो यदा रात्रौ दिवि दृश्यते स एवोदयः । स च शरत्समय एव ध्रुवचक्रगत्यधीनतया भवतीति वेदितव्यम् । तदा तु भुवि वापीकूपसरित्समुद्रा-
2 G. एषः.
 
[^1 ]A. जलाशयानाम्.
[^2] G. एषः.