This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
२७
 
"
 
दमुदितानिति भावः । अन्यत्र रसानां सलिलानां ऊर्मिषु मग्नान् स्वीय

चरणाङ्गुष्ठनखनिर्भिन्नविध्यण्डविनिसृतस्वर्गङ्गातरङ्गसंवलितानितिभावः । रचयन्
कुर्वन् । तथा दूरीकृत: दूरनिरस्त: उन्मेष: विकास : प्रचार इति यावत्
येषां तादृशानि । दुरीहाणां मन्दमतीनां कुकवीनामिति भावः । काव्यानि
प्रबन्धा येन तादृशश्च सन् । अस्य कवितारसानुभवे कुकविप्रबन्धा निरस्ता
भवन्तीति भावः । अन्यत्र दूरीकृत: निराकृतः, अपुनरुद्भवं यथा तथा
स्वरूपनाशं गमित इति भावः । उन्मेष: चक्षुरुन्मीलनं यस्य तादृशः । अत
एव दुरीहः भाविकार्यविचारविधुरः । काव्यः शुक्रः । "शुक्रो दैत्यगुरुः

काव्यः" इत्यमरः । येन तादृशः काणीकृतभार्गव इति भावः । अत्र वामनावतारे
पदत्रयपरिमितां भुवं याचते भगवते तां प्रदातुमुद्यते बलौ तत्कर्मविदितवता
भार्गवेण प्रतिषिद्धेऽपि प्रदानमण्यसंमन्यमाने दातुं प्रवृत्ते कुण्डिजलनिर्गममार्गे
चक्षुर्गोळेन पिहिते सति तत्कर्मविजानता वामनेन कुशाग्रेण कुण्डिगळद्वार निहित
नयनगोळमपच्छिन्नमभूत् । तदारभ्य भार्गव: काण इति कथात्रानुसन्धेया ।
समुन्नता सर्वोत्कृष्टा श्रीः वाग्विभूतिः यस्य तादृशः । अन्यत्र समुन्नता
सत्यलोकादुपरि ब्रह्माण्डखर्परपर्यन्त- मुछ्रिता श्री: चरणशोभा यस्य तादृशः ।
सः प्रसिद्धो वामनः वामनाख्यः कविः त्रिविक्रमश्च । भाति दीव्यति । प्रकृता-
प्रकृतश्लेष:, भगवतोऽपि कीर्तनात् । विवक्षितत्वे तु श्लेष: ध्वनिर्वा ॥ १७ ॥
 

अथ अगस्त्यकविविं प्रस्तौति-

जडाशयानां हृदयं जगत्यां यस्योदयाद्यातितमां प्रसादम् ।

स एव सारस्वतमर्मवेदी विभाति मौलौ विदुषामगस्त्यः ॥ १८ ॥
 

जलेति — यस्य अगस्त्यस्य कुम्भयोनेश्च उदयात् उत्पत्तेः निशा-
स्वप्रकाश- नाच्च नक्षत्रवत् खगोळगतस्यागस्त्यापि मरीचिभिर्वा मेरुणा वा तिरोधान-

समय एवमतिरोहितो यदा रात्रौ दिवि दृश्यते स एवोदयः । स च शरत्समय एव
ध्रुवचक्रगत्यधीनतया भवतीति वेदितव्यम् । तदा तु भुवि वापीकूपसरित्समुद्रा-

2 G. एषः.
 

 
1 A. जलाशयानाम्.