This page has been fully proofread once and needs a second look.

क्षेमेन्द्रेति – यदीया क्षेमेन्द्रकविसम्बन्धिनी तत्प्रणीतेत्यर्थः । कवित्वधारा
साहित्यधोरणी । धारात्वरूपणाद्रसमयीति व्यज्यते । करं करपदम्,
" स्वं रूपं शब्दस्य " इत्यनुशासनात् । मधुवाक् मकरन्दपदावयवीभूतं ककाररेफात्मकं पदमिति भावः । तदेव करं राजदेयबलिविशेषम् । "राजदेयबलौ कर:" इति विश्व: । आददाना गृह्णती सती । मकरन्दं मधु । अलं अत्यन्तम् । मन्दं मकरन्दपदे उक्तविधया व्यपगतकरपदावशिष्ट- मन्दपदवाच्यतया अत्यल्पमाधुर्यंं विधत्ते विदधाति । [अद्धा] ध्रुवं सत्यम् । क्षेमेन्द्रकवितारसास्वादात्पूर्वं अतिमधुरत्वेन मकरन्दमनुभूतवतामेव सहृदयानां तत्कवितास्वादसमनन्तरमेव क्षौद्ररसेऽत्यल्पत्वबुध्युदयेन निमित्तेन सकलमधुरवस्तुजातविजेत्र्या क्षेमेन्द्रकवित्वधारया पराजित-
मकरन्दसकाशात् तदीयसारे तन्नामान्तरावयवीभूतकरपदे श्लेषेण राजदेय बलित्वेनाध्यवसिते बलिरूपेणापहृते परिशिष्टमन्दपदवाच्यतदर्थानुरोधाच्च मन्दपदवाच्योऽभूत्किमिति भावः । तस्मा इत्यध्याहार्यम् । तस्मै क्षेमेन्द्र इति
नाम यस्य तादृशाय । क्षेमाणि कुशलानि । भूयासुः भवतेराशिषि लिङ् ।
अत्र कवित्वधाराकृतमन्दीभवनकर्मणि तत्कृतमकरन्दसकाशात् करादानं
वस्तुतोऽसदपि शब्दार्थोभयसाधारणकरपदश्लेषमूलाभेदातिशयोक्ति- सम्पन्नमहेतुरेव हेतुत्वेनोपन्यस्तमिति हेतूत्प्रेक्षा ॥ १६ ॥
अथ वामनकविं प्रस्तौति-
पदेन दिव्यध्वनिभासुरेण रसोर्मिमग्नात्रचयन्कवीन्द्रान् ।
दूरीकृतोन्मेषदुरीहकाव्यः स वामनो भाति समुन्नतश्री: ॥ १७ ॥
पदेनेति – दिव्येन वाच्यातिशायितया लसमानेन । ध्वनिना व्यञ्जनया
भासुरेण शोभमानेन । अन्यत्र दिवि अध्वनीति पदच्छेदः, गगनमार्ग इत्यर्थः। भासुरेण प्रकाशमानेन । पदेन सुबन्ततिङन्तादिना; जाता- वेकवचनम्, पदैरित्यर्थः। एकेनैव पदेन सहृदयाह्लादे कृते किमु वक्तव्य- मनेकैरिति तदीयप्रबन्धस्याति प्रशस्तत्वं व्यज्यते । अन्यत्र चरणेन । कवीन्द्रान् महाकवीन् सहृदयानित्यर्थः । अन्यत्र पक्षिमुख्यान् । इदं च गगनचारिणां सर्वेषामुपलक्षणार्थम् । रसानां शृङ्गारादीनाम् । ऊर्मिषु तरङ्गेषु मग्नान् निमज्जितान् स्वीयसाहितीरसास्वा-