2023-04-05 14:54:43 by jayusudindra
This page has been fully proofread once and needs a second look.
अथ मयूरनामानं कविं प्रशंसति -
मयूरनामा कविमल्ल एषः चकास्ति सच्चन्द्रकलाळिकीर्तिः ।
यश्शारदाभ्यागममप्यवाप्य स्फुरत्कलापाळि विजृम्भते स्म ॥१५॥
मयूरेति – यः मयूरकवि : बर्ही च। शारदाया: सरस्वत्याः अभ्यागमं समागमम् । अवाप्य लब्ध्वापि । सरस्वतीप्रसादेन सरससाहितीमभ्युपेत्येति
भावः । अन्यत्र शरदं शरत्कालसम्बन्धिनं अभ्यागमं समागममवाप्यापि
मयूरोत्साहहेतुभूतवर्षासमयव्यपगमे समापतितेऽपीति भावः । सतां नक्षत्राणां चन्द्रकलानां इन्दुखण्डानां च आळि: पङ्क्तिरिव जगद्भासकेति भावः, कीर्तिः प्रशस्तिर्यस्य तादृशस्सन् । अन्यत्र सन्ति विद्यमानानि विस्पष्टपरिदृष्टानीति भावः । चन्द्रकाणि चन्द्रकलाकारचकच्चक्रबिन्दु- जालानि । "समौ चन्द्रकमेचकौ " इत्यमरः । तैः लालिनी लसमाना कीर्तिः बर्हभरः यस्य तादृशः सन् । "बर्हः स्तवेऽपि कीर्तिः स्यात् " इति वामनः । ताण्डवावसरे पक्षोपपक्षप्रसारणेन प्रकटितचन्द्रकतया नृत्यन्निति भावः । स्फुरन्ती प्रकाशमाना कलानां विद्यानां पाळि: समूहो यस्मिन् कर्मणि तथा । अन्यत्र स्फुरन्ती विलसन्ती नृत्यावसरप्रसारितेति भावः । कलापानां मयूरपक्षतीनां आळि : यस्मिन् कर्मणि तया । " कलापो भूषणे बर्हे " इत्यमरः । विजृम्भते स्म विचकाशे । विपूर्वात् "जृभीगात्रविक्षपे" इति धातोरात्मनेपदे लट् । स्मयोगाद्भूतार्थता । अन्यत्र ननर्तेत्यर्थः ।
स इत्यध्याहारः । स एष यथोक्तगुणः, मयूर इति नाम नामधेयं यस्य सः ।
कविमल्लः कविश्रेष्ठ: अन्यत्र पक्षिश्रेष्ठश्च । चकास्ति भासते ।"काशृ दीप्तौ "
इति धातोर्लट् । अत्र मयूराणां वर्षास्वेव प्रमदातिशयस्य प्रत्युत शरदि खेदस्य कविलोकप्रसिद्धावपि शरदि मयूरविजृम्भणरूपविरोधस्य कविपक्षे सारस्व[त]समागमसम्पन्नस्य निखिलविद्याविलासवत्तया प्रकाशनरूपार्थे- नाभासीकरणाद्विरोधाभासालङ्कारः । कविपक्षे उपमानुप्राणितः ॥ १५ ॥
अथ क्षेमेन्द्रकविं प्रस्तौति-
क्षेमेन्द्रनाम्ने कविपुङ्गवाय [^1] क्षेमाणि भूयासुरलं यदीया [^2] ।
कवित्वधारा करमाददाना मन्दं विधत्ते मकरन्दमद्धा ॥ १६ ॥
[^1] G. कविवल्लभाय
[^2] G. यदीया:.

[^2] G. यदीया: