This page has been fully proofread once and needs a second look.

प्रथमस्सर्ग:
 
२५
 
अथ मयूरनामानं कविविं प्रशंसति -
 

मयूरनामा कविमल्ल एषः चकास्ति सच्चन्द्रकलाळिकीर्तिः ।

यश्शारदाभ्यागममध्प्यवाप्य स्फुरत्कलापाळि विजृम्भते स्म ॥१५॥
 

 
मयूरेति – यः
मयूरकवि : बर्ही च। शारदाया: सरस्वत्याः अभ्यागमं समागमम् । अवाप्य
 
66
 
मयूरकवि : बहीं च । शारदाया: सरस्वत्याः अभ्यागमं
लब्ध्वापि । सरस्वतीप्रसादेन सरससाहितीमभ्युपेत्येति

भावः । अन्यत्र शरदं शरत्कालसम्बन्धिनं अभ्यागमं समागममवाप्यापि

मयूरोत्साहहेतुभूतवर्षासमयव्यपगमे समापतितेऽपीति भावः । सतां नक्षत्राणां
चन्द्रकलानां इन्दुखण्डानां च आळि: पङ्क्तिरिव जगद्भासकेति भावः, कीर्तिः
प्रशस्तिर्यस्य तादृशस्सन् । अन्यत्र सन्ति विद्यमानानि विस्पष्टपरिदृष्टानीति
भावः । चन्द्रकाणि चन्द्रकलाकारचकच्चक्रबिन्दु- जालानि । "समौ चन्द्रकमेचकौ "
इत्यमरः । तैः लालिनी लसमाना कीर्तिः बर्हरः यस्य तादृशः सन् । "बई:
र्हः स्तवेऽपि कीर्तिः स्यात् " इति वामनः । ताण्डवावसरे पक्षोपपक्षप्रसारणेन
प्रकटितचन्द्रकतया नृत्यन्निति भावः । स्फुरन्ती प्रकाशमाना कलानां विद्यानां
पाळि: समूहो यस्मिन् कर्मणि तथा । अन्यत्र स्फुरन्ती विलसन्ती नृत्यावसर-
प्रसारितेति भावः । कलापानां मयूरपक्षतीनां आळि : यस्मिन् कर्मणि तया ।
" कलापो भूषणे बर्हे " इत्यमरः । विजृम्भते स्म विचकाशे । विपूर्वात् "जृभी-
गात्रविक्षपे" इति धातोरात्मनेपदे लट् । स्मयोगाद्भूतार्थता । अन्यत्र ननर्तेत्यर्थः ।

स इत्यव्ध्याहारः । स एष यथोक्तगुणः, मयूर इति नाम नामधेयं यस्य सः ।
कविमल:

कविमल्लः
कविश्रेष्ठ: अन्यत्र पक्षिश्रेष्ठश्च । चकास्ति भासते ।
"काशृ दीप्तौ "

इति धातोर्लट् । अत्र मयूराणां वर्षास्वेव प्रमदातिशयस्य प्रत्युत शरदि खेदस्य
कविलोकप्रसिद्धावपि शरदि मयूर विजृम्भणरूपविरोधस्य कविपक्षे सारस्व[त]-
समागमसम्पन्नस्य निखिलविद्याविलासवत्तया प्रकाशनरू पार्थे- नाभासीकरणाद्विरोधा-
भासालङ्कारः । कविपक्षे उपमानुप्राणितः ॥ १५ ॥
 
"
 
८८
 

अथ क्षेमेन्द्रकविं प्रस्तौति-

क्षेमेन्द्रनाम्ने कविपुङ्गवाय' क्षेमाणि भूयासुरलं यदीया ।

कवित्वधारा करमाददाना मन्दं विधत्ते मकरन्दमामद्धा ॥ १६ ॥

1 G. कविवल्लभाय
 

 
2 G. यदीया:.