This page has been fully proofread once and needs a second look.

व्यञ्जिताः प्रकाशिता: भावानां द्रव्यादिपदार्थानां भेदाः परस्परवैलक्षण्यं येन
तादृशस्सन् । दीव्यति प्रकाशते । चमत्कृतार्थकल्पकत्वेन सकललोक- प्रकाशकारितया च सर्वाशंसनीयो भवतीति भावः । प्रकृताप्रकृतश्लेषः
॥ १३ ॥
अथ बाणकवि प्रस्तौति--
बाणो धुरीणः कविपुङ्गवेषु प्रकाशतां भव्यफलोदयश्रीः ।
अमुञ्चमानोऽपि गुणं परेषां विव्याध मर्माणि विशेषतो यः ॥ १४ ॥
बाण इति – कविपुङ्गवेषु कविश्रेष्ठेषु काळिदासादिषु मध्ये । धुरीण:
धूर्वहः । "खस्सर्वधुरां " इति केवलादपि खप्रत्ययः । कविकर्मनिर्वाहक इत्यर्थः । अन्यत्र कविपुङ्गवेषु पक्षिवर्येषु । धुरीण: शीघ्रपातादिपक्षवत्कर्म निर्वाहक इत्यर्थः । "विकविः पतग: पतत् " इति श्रीहर्ष: । बाणस्यापि पक्षवत्तया तत्कर्माचरणस्यानपायादिति भावः । अत एव भव्यफला कुशलप्रयोजनवती उदयस्य उत्पत्ते: श्री: सम्पत् यस्य समयाचारेण स्वसूक्त्य भगवद्गुणादिवर्णने च जन्मसाफल्यं प्राप्तमिति भावः । अन्यत्र भव्यं रमणीयं फलं काळायसबाणाग्रनिवेशितशल्यम् । "फलमिष्वग्रे सस्ये" इति रत्नमाला । यस्याः भव्यबालायाः उदयस्य मुखप्रदेशस्य श्री: शोभा यस्य तादृशः । य: बाणकवि : सायकश्च । गुणं प्रतिभाप्रवचनादि-
कम् । अन्यत्र, मौर्वीं । "मौर्वी ज्या शिञ्जिनी गुण: " इत्यमरः । अमुञ्चमानः अविजहन्नपि । विशेषतः समधिकतया । परेषां प्रतिभटविबुधानां कवीनां
च । मर्माणि न्यक्कारहेतून् दोषान् । विव्याधबिभेद दोषोद्धाटनादिना परानभ्यभवदिति भावः । अन्यत्र अमुञ्चमानोऽपि अत्यजन्नपि । केवलमौर्व्यां सन्धायाप्रयुक्तोपीत्यर्थः । विशेषतः लक्ष्ये प्रयुक्तो यथा
शत्रूणां मर्माणि भिन्द्यात्ततोऽधिकतयेति भावः । परेषां शत्रूणाम् । मर्माणि
हृदयादिस्थानविशेषान् । विव्याध बिभेद । सः बाण : बाणनामा कविः, सायकश्च । प्रकाशतां दीव्यतु । प्रपूर्वात् काशृदीप्ताविति धातोर्लोट् । अत्र सायकपक्षे मौर्वींसंहितमात्रस्याप्रयुक्तस्यापि बाणस्य विशेषतः परमर्मविदा- रकत्वविरोधस्य, कविपक्षे निखिलगुणवतः प्रतिवादिमर्मोद्धाटयितृत्वार्थेना- भासीकरणाद्विरोधाभासालङ्कारः ॥
 
८८