2023-03-26 16:29:10 by ambuda-bot
This page has not been fully proofread.
प्रथमस्सर्गः
२३
पुण्यं भगवत्कथासङ्कीर्तनसम्पन्नं सुकृतं भजतीति तादृशाय । माघाय माघनाम्ने
महाकवये । अघं दुःखं दुरितं वा । " अवं दुरितदुःखयोः " इति विश्वः । मा भव-
तात् मा भूत् । निषेधार्थक शब्दयुक्तादाशीरर्थाद्भवतेर्लोट् । सर्वदा सुखसमृद्धः
सुकृतसन्तानसम्पन्नश्च भूयादित्यर्थः । श्लेषालङ्कारः ॥ १२ ॥
अथ भारविं प्रस्तौति -
स भारविर्दीव्यति पादबृन्दैर्मन्देहसंमोहनमादधानैः ।
धनञ्जयस्फूर्तिविधायिभिस्सत्रद्योदितैर्व्यञ्जितभावभेदः
॥ १३ ॥
--
स इति - सः प्रसिद्धः भारवि: भारविर्नाम कविः । अन्यत्र सभा: रवि-
रिति पदच्छेदः । भासा दीप्या सहितः सभास्तादृशो रविः सूर्यः । मन्देहानां
मन्दबुद्रीनाम् । यद्यपीहाशब्दस्येच्छापरत्वं तथापीच्छाया बुद्धिजन्यत्वात्त-
त्समानविषयत्वाद्वुद्भावौपचारिकः । यद्वा मन्देहानां मन्दोद्यमानामित्यर्थः । " ईंहो-
द्यमेच्छया: " इति रत्नमाला । तेषां संमोहनं सम्यगर्थानवबोधम् । आदधानैः
विदधानः । अबुद्धिमतां बुद्धिमतामपि मन्योद्यमानां गूढव्यङ्ग्यतया ज्ञटि-
त्यर्थावबोधाजनकैरिति भावः । अन्यत्र मन्देहनाम्नां दानवानाम् संमोहनं
सन्तापातिशयजनितां मूर्छामादधानैः । "रक्षांस्यादित्यं योधयन्ति " इत्यादि-
श्रुतेः । तथा धनञ्जयस्य अर्जुनस्य स्फूर्ति ख्याति विदधतीति तादृशः ।
अनेनैव कविना किरातार्जुनीयाख्ये काव्ये धनञ्जययशांत्रिशदीकरणादिति भावः ।
अन्यत्र धनञ्जयस्य अग्नेः । "वीतिहोत्रो धनञ्जयः इत्यमरः । स्फूर्ति रात्रौ
विप्रकृतदेशप्रस्फुरणं विदधतीति तादृशैः । "अग्निं वा वादिस्य ः सायं प्रविशति ।
तस्मादग्निर्दूरान्नक्तं ददृशे " इति श्रुतेः । तथा सत्पद्योदितैः सत्सु साधुषु
अदोषसगुणसालङ्कारत्वादिविशिष्टतया विद्वदुपललितेविति भावः पद्येषु श्लोकेषु
उदितैः प्रयोजितैः । पादबृन्दैः पद्यचतुर्थाशकदम्बैः । पादशब्दस्य पदपरत्वमा
श्रिय सुबन्तादिपदजालैरिति वा । अन्यत्र सतां नक्षत्राणां पद्यायां सरणौ
गगनमार्ग इत्यर्थः । उदितैः प्रवृत्तैः । पादबृन्दै: रश्मिजालैः । पादा रश्यङ्घ्रि-
तुर्याशा : " इत्यमरः । व्यञ्जिताः व्यञ्जनाख्यया वृत्त्या ध्वनिता: भावानां रत्या-
दीनां वस्त्वलङ्काररसादीनां च भेदा: प्रपञ्चा: येन तादृशस्सन् । अन्यत्र
32
66