This page has been fully proofread once and needs a second look.

आलोचितानि हृदयानन्दितयानुभाव्यमानानि । भव्यानि कुशलानि "भव्यगेय " इत्यादिना कर्तरि यत्प्रत्ययः । अर्थतः शब्दतश्चात्यन्तमधुराणीति भावः । पद्यानि श्लोका यस्य तादृशः । "पदान्यत्र दृश्यन्ते " इति यत्प्रत्ययः। अत्र एकैकस्मिन्नेव सर्वेषां रसानामस्फुरणाल्क्वचिद्रूपस्फुरणाद्वा प्राय इति । अन्यत्र प्रायो रसालै: चूतैः "आम्रश्चूतो रसाल" इत्यमरः उचितया अनुरूपया योजिता भव्या मनोज्ञा प्रच्छायशीतलत्वेन मृदुशाद्वलसिंकतिलत्वादिना सुखसञ्चरणक्षमेति भावः । पद्या सरणिर्यस्मिन् तादृशः । रसाला एव उद्याने भूयसा मार्गवर्तिनो भवन्तीति भावः । कविता साहित्य : ता एव लतास्तासामारामदेश: उद्यानभूमिः भवतीति शेषः । अयं ईदृशो भवभूतिः भवभूतिनामा कविः । भवात् ईश्वरात् भूति: वाग्विभूतिः यस्येति व्युत्पत्त्या महेश्वरानुग्रहलब्धविद्यावैशद्यो वरकविरिति प्रतीयते । तेन पार्वतीपरमेश्वर योरनुग्रहभाजनीभूतयोर्द्वयोः काळिदासभवभूत्योरव्यवधानेन प्रतिपाद- नात्परस्परसंश्लिष्टयोरुमामहेश्वरयोरभिव्यक्त्या कवेः तदुभयविषय करतिभावो व्यज्यते । आमोददः आनन्दातिशयप्रदाता सौरभ्यसंपादकश्च ।
अस्तु भूयात् । न इति शेषः । अत्र उक्तविशेषणविशिष्टस्य कवेरेवंविधो- द्यानत्वरूपणात्समस्तवस्तुविषयकं सावयवं विशिष्टरूपकमलङ्कारः । तेन तथाविधोद्यानस्येव कवे: स्वामोदप्रदातृत्वमन्पायमिति व्यज्यते ॥ ११ ॥
अथ माघकविं प्रस्तौति
माघाय माघं भवतान्मुकुन्दकेळीकथावर्णनपुण्यभाजे ।
स्वर्गावरोधा इव यस्य वाचः स्वैरं भजन्ते सुरसार्थशय्याः ॥ १२ ॥
माघायेति – यस्य कवेः । वाच : सूक्तयः । स्वर्गावरोधा इव सुरलोकान्तः- पुराणीव । सु शोभना: रसाः शृङ्गारादयः अर्था उत्प्रेक्षागोचराः शय्या: रसानुगुणपदविन्यासरूपाः । अन्यत्र सुराणां इन्द्रादिदेवानां सार्थस्य
समूहस्य । "सङ्घसार्थौ तु जन्तुभिः " इत्यमरः । शय्याः पर्यङ्कान् । भजन्ते
लभन्ते । प्राप्त्यर्थात् "भज सेवायां " इति धातोर्लट् । यत्तदोर्नित्यसम्बन्धा- त्तस्मा इत्यध्याहार्यम् । तादृशाय । अथ च मुकुन्दस्य कृष्णस्य केळीकथायाः विहारचरितस्य वर्णनेन कथनेन शिशुपालवधाख्यमहाकाव्य विरचनेनेति भावः ।