This page has been fully proofread once and needs a second look.

प्रथमस्सर्ग:
 
२१
 
अथ काळिदाससूक्तेश्शर्करात्वेन वर्णनमयुक्तमित्यभिप्रायवानाह-

काळीमुखोद्यद्धनसारवीटीसौरभ्यसौलभ्यजुषा यदुक्त्या ।

सितासिताजायत लज्जितेव स कालिळिदासः स्तुतिगोचरः किम् ॥
 

काळीति – सिता शर्करा । काळ्या: गौर्या : मुस्वात् वदनात्

उद्यन्त्याः आविर्भवन्त्याः वनसारवीट्याः कर्पूरमिश्रितताम्बूलस्य सौरभ्यस्य

परिमळस्य सौलभ्यं अप्रयासोपलब्धिम् जुषति प्राप्नोतीति तादृश्या । यदुक्त्या
कालिदासवाण्या निमित्तभूतया । लज्जितेव हीह्रीणेव । सिता धवळा । अजायत ।
उत्कृष्टत्वेन प्रख्यातस्य स्खापेक्षयात्युत्कृष्टस्य संभवे 'संम्भावितस्य चाकीर्तिर्मरणा-
दतिरिच्यते' इति न्यायाल्लुज्जया धवलीभावस्य प्रसिद्धत्वादिति भावः । अन्यथा
माधुर्यवतां मकरन्दादीनामिव पाटलवर्णत्वं कुतो न स्यादित्याशयः । स एवं
परदेवताप्रसादसमासादितसर्वातिशा- यिवाङ्माधुरीक: काळिदासः । स्तुतेः
स्तवस्य । किं गोचरः विषय: किमु ? अविषय एवेत्यर्थः । तदीया गुणास्सामस्त्येन
केनापि वक्तुमशक्या एवेति भावः । अत्र स्वाभाविकशर्करावावळधावळ्ये लज्जाहेतुत्व-
सम्भावना हेतूत्प्रेक्षा । वस्तुतो लज्जाभावादसिद्धविषया । इत्थं च कालिदासवाकू
क्
शर्करातिशायितया तादृद्रूप्यवर्णनमयुक्तमिति भावः ॥ ततश्च मिळत
ळितयोः पद्ययोराक्षेपालङ्कारः ॥ १० ॥
 

 
अथ भवभूतिं प्रार्थयते---
 

 
यो मालतीमाधवयोगहृद्यः प्रायो रसालोचितभव्यपद्यः ।

आरामदेश: कवितालतानामामोददोऽयं भवभूतिरस्तु ॥ १५ ॥
 
(6
 
"
 

य इति – यः भवभूति: । मालती नाम काचन नायिका माधवो नाम

तन्नायकः तयोर्योगः परिणयः तेन हृद्य: रमणीयः ।
"हृदयस्य प्रिय: "

इत्यनेन यत्प्रत्ययः । मालतीमाधवीयाख्यप्रकरणरूपकाचरणेन सकलसहृदयहृदया-
नन्दजनक इति भावः । अन्यत्र मालती वासन्ती लता माधवो वसन्तः
तयोर्योगेन मेळनेन हृद्यः मनोहरः । तथा प्राय: प्रायेण । रसैः शृङ्गारादिभिः