This page has been fully proofread once and needs a second look.

प्रीत्यतिशयम् । न विधत्ते न कुरुते । सर्वेषामानन्दाधिगमो दृश्यत एवेति भावः । अत्र विशेष्यविशेषणैस्सर्वैरप्यप्रकृतशुकवृत्तान्तप्रतीत्या प्रकृताप्रकृतश्लेषो ध्वनिरित्यन्ये । उपेन्द्रवज्रावृत्तम् ॥ ८ ॥
एवमपरिमेयमहिमातिशयान्महर्षींस्तदुपन्यस्तनिखिलश्रुतिशिरस्सारभरिता- न्महाप्रबन्धांश्चानुसन्धाय सांप्रतं कविकुलतिलकं कालिदासं प्रस्तौति -
उदञ्चितोच्चावचरागकालीवीटीरसासारविवर्तमूर्तिः ।
सितायते मुक्तिरहो यदीया चित्ते स जागर्ति चिरं कवीन्द्रः ॥९॥
उदश्चितेति-उदञ्चितः उद्भूतः उच्चावच: नानाविध : क्षणं बिम्बफलतुल्य: क्षणंजपाकुसुमसम: ततश्चेन्द्रकोपोपम इत्येकस्यैव बहुविधत्वात् ।
राग: लौहित्यं यस्य तादृशस्य कालीवीटीरसासारस्य देवीप्रदिष्टताम्बूल- रसधारायाः प्रसादपरवशमातङ्गोमुखकमलविनिर्गत्वरस्य प्रणतप्रह्वीभूत- काळिदासवदनपरिगृहीतस्येति भावः । विवर्ता रूपान्तरात्मिका मूर्तिः वाग्झरीस्वरूपं यस्यास्तादृशी । देवीविश्राणितवीटीरसस्यैव कविता- रूपतया परिणतत्वादिति भावः । यदीया काळिदाससम्बन्धिनी । सूक्ति: सरसमधुरा वाणी । सितायते शर्करावदाचरति । सितायते श्वेतीभवतीति च व्यज्यते । सिताशब्दादाचारार्थे क्यङ् । अहो इत्याश्चर्ये । अतिलोहित- वीटीरसमूर्तेंर्धवलीभवनमद्भुतमित्यर्थः । सः कवीन्द्रः काळिदासः । चित्ते हृदये । ममेति शेष: । चिरं जागर्ति सदा प्रतिवसति । सन्ततं तदनुसन्धान- परोऽहमिति भावः । अत्र वीटीसमर्पणसमनन्तरमेव कालिदासमुखादति- मधुरतरकवितामृतोद्गिरणेन निमित्तेन वीटीरस एव साहितीविवर्तीपादा- नतयाध्यवसीयते । स च वीटीरस एव अल्पपात्रपरिपूरितबहूदक- प्रत्यावर्तनवद्वाग्झरीरूपेण प्रावर्ततेति वीटीरसाभेदसंभावनारूपोत्प्रेक्षानु- प्राणितोऽतिलोहितस्य धवलीभवनरूपविरोधस्य शर्करायत इत्याभासी-
करणरूपो विरोधाभासः । स च शर्करावदाचरतीत्युपमासापेक्षेति सङ्करः ।
अत्रेन्द्रवज्रोपेन्द्रवज्रयोः प्रस्ताराव्यवहितयोर्मेळनादुपजातिवृत्तम् । एवमन्यत्राप्यूह्यम् ॥ ९ ॥