This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
 
प्रीत्यतिशयम् । न विधत्ते न कुरुते । सर्वेषामानन्दाधिगमो दृश्यत एवेति भावः ।
अत्र विशेष्यविशेषणैस्सर्वैरप्यप्रकृतशुकवृत्तान्तप्रतीत्या प्रकृताप्रकृतश्लेषो व्ध्वनि-
रित्यन्ये । उपेन्द्रवज्रावृत्तम् ॥ ८ ॥
 

एवमपरिमेयमहिमातिशयान्महर्षीषींस्तदुपन्यस्तनिखिलश्रुतिशिरस्सारभरिता -
- न्महाप्रबन्धांश्चानुसन्धाय सांप्रतं कविकुलतिलकं कालिदासं प्रस्तौति ---
 

उदञ्चितोच्चावचरागकालीवीटीरसासारविवर्तमूर्तिः ।
 

सितायते मुक्तिरहो यदीया चित्ते स जागर्ति चिरं कवीन्द्रः ॥९॥
 

उदश्चितेति-~-उदञ्चितः उद्भूतः उच्चावच: नानाविध : क्षणं बिम्ब-
फलतुल्य: क्षणंजपाकुसुमसम: ततश्चेन्द्रकोपोपम इत्येकस्यैव बहुविधत्वात् ।

राग: लौहित्यं यस्य तादृशस्य कालीवीटीरसासारस्य देवीप्रदिष्टताम्बूल- रसधारा-
याः प्रसादपरवशमातङ्गोमुखकमलविनिर्गत्वरस्य प्रणतप्रीरह्वीभूत- काळिदासवदन-
परिगृहीतस्येति भावः । विवर्ता रूपान्तरात्मिका मूर्तिः वाग्झरीस्वरूपं
यस्यास्तादृशी । देवीविश्राणितवीटीरसस्यैव कविता- रूपतया परिणतत्वादिति
भावः । यदीया काळिदाससम्बन्धिनी । सूक्ति: सरसमधुरा वाणी । सितायते
शर्करावदाचरति । सितायते श्वेतीभवतीति च व्यज्यते । सिताशब्दादाचारार्थे
क्यङ् । अहो इत्याश्चर्ये । अतिलोहित- वीटीरसमूर्तेतेंर्धवलीभवनमद्भुतमित्यर्थः । सः
कवीन्द्रः काळिदासः । चित्ते हृदये । ममेति शेष: । चिरं जागर्ति सदा
प्रतिवसति । सन्ततं तदनुसन्धान- परोऽहमिति भावः । अत्र वीटीसमर्पण-
समनन्तरमेव कालिदासमुखादति- मधुरतर कवितामृतोद्भिगिरणेन निमित्तेन वीटीरस
एव साहितीविवर्तीपादा- नतयाध्यवसीयते । स च वीटीरस एव अल्पपात्र-
परिपूरितबहूदक- प्रत्यावर्तनवद्वाग्झरीरूपेण प्रावर्ततेति वीटीरसाभेदसंभावनारूपो-
त्प्रेक्षानु- प्राणितोऽतिलोहितस्य धवलीभवनरूपविरोधस्य शर्करायत इत्याभासी-

करणरूपो विरोधाभासः । स च शर्करावदाचरतीत्युपमासापेक्षेति सङ्करः ।

अत्रेन्द्रवज्रोपेन्द्रवज्रयोः प्रस्ताराव्यवहितयोर्मेळनादुपजातिवृत्तम् । एवमन्यत्रा-
प्यूह्यम् ॥ ९ ॥