2023-03-26 16:29:09 by ambuda-bot
This page has not been fully proofread.
रुक्मिणीकल्याणे सव्याख्याने
प्रीत्यतिशयम् । न विधत्ते न कुरुते । सर्वेषामानन्दाधिगमो दृश्यत एवेति भावः ।
अत्र विशेष्यविशेषणैस्सर्वैरप्यप्रकृतशुकवृत्तान्तप्रतीत्या प्रकृताप्रकृतश्लेषो व्वनि-
रित्यन्ये । उपेन्द्रवज्रावृत्तम् ॥ ८ ॥
एवमपरिमेयमहिमातिशयान्महर्षीस्तदुपन्यस्तनिखिलश्रुतिशिरस्सारभरिता -
न्महाप्रबन्धांश्चानुसन्धाय सांप्रतं कविकुलतिलकं कालिदासं प्रस्तौति ---
उदञ्चितोच्चावचरागकालीवीटीरसासारविवर्तमूर्तिः ।
सितायते मुक्तिरहो यदीया चित्ते स जागर्ति चिरं कवीन्द्रः ॥९॥
उदश्चितेति-~-उदञ्चितः उद्भूतः उच्चावच: नानाविध : क्षणं बिम्ब-
फलतुल्य: क्षणंजपाकुसुमसम: ततश्चेन्द्रकोपोपम इत्येकस्यैव बहुविधत्वात् ।
राग: लौहित्यं यस्य तादृशस्य कालीवीटीरसासारस्य देवीप्रदिष्टताम्बूलरसधारा-
याः प्रसादपरवशमातङ्गोमुखकमलविनिर्गत्वरस्य प्रणतप्रीभूतकाळिदासवदन-
परिगृहीतस्येति भावः । विवर्ता रूपान्तरात्मिका मूर्तिः वाग्झरीस्वरूपं
यस्यास्तादृशी । देवीविश्राणितवीटीरसस्यैव कवितारूपतया परिणतत्वादिति
भावः । यदीया काळिदाससम्बन्धिनी । सूक्ति: सरसमधुरा वाणी । सितायते
शर्करावदाचरति । सितायते श्वेतीभवतीति च व्यज्यते । सिताशब्दादाचारार्थे
क्यङ् । अहो इत्याश्चर्ये । अतिलोहितवीटीरसमूर्तेधवलीभवनमद्भुतमित्यर्थः । सः
कवीन्द्रः काळिदासः । चित्ते हृदये । ममेति शेष: । चिरं जागर्ति सदा
प्रतिवसति । सन्ततं तदनुसन्धानपरोऽहमिति भावः । अत्र वीटीसमर्पण-
समनन्तरमेव कालिदासमुखादतिमधुरतर कवितामृतोद्भिरणेन निमित्तेन वीटीरस
एव साहितीविवर्तीपादानतयाध्यवसीयते । स च वीटीरस एव अल्पपात्र-
परिपूरितबहूदक प्रत्यावर्तनवद्वाग्झरीरूपेण प्रावर्ततेति वीटीरसाभेदसंभावनारूपो-
त्प्रेक्षानुप्राणितोऽतिलोहितस्य धवलीभवनरूपविरोधस्य शर्करायत इत्याभासी-
करणरूपो विरोधाभासः । स च शर्करावदाचरतीत्युपमासापेक्षेति सङ्करः ।
अत्रेन्द्रवज्रोपेन्द्रवज्रयोः प्रस्ताराव्यवहितयोर्मेळनादुपजातिवृत्तम् । एवमन्यत्रा-
प्यूह्यम् ॥ ९ ॥