This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
१९
 
वासनया चरितेन आढ्या पूर्णा
 

 
। विशेषात्तच्चरितप्रतिपादिकेति भावः । अन्यत्र
भारतया भरततन्त्रविषयिण्या वासनया बहुतराभ्यासदृढीकृत- संस्कारेण आढ्या
अन्तरिता । लासिकी नर्तकीव । दीव्यति प्रकाशते । द्योतनार्थकाहीद्दीव्यतेः कर्तरि
लट् । सकलजगद्विख्याता भवतीति भावः । उपमालङ्कार: श्लेषानुप्राणित इति
सङ्करः । अत्र चतुर्थपादे उपेन्द्रवत्तज्रा- लक्षणादुपजातिवृत्तम् । अन्ये तु सा भारती
दीव्यतीति पाठमाहुः ॥ ७ ॥
 

 
अथ पूर्वोक्तक्रमानुरोधेन परमभागवतस्याजन्मब्रह्मनिष्ठस्य शुकस्य वाणी-

मभिष्टौति--

अनन्तशाखागमपक्षपातजुषः प्रकृत्या हरितत्त्वभाजः ।

शुकस्य वाणी सुकृतैकलभ्या न कस्य वानन्दभरं विधत्ते ॥ ८ ॥
 

अनन्तेति-
- अनन्ता: बह्वयः शाश्वता वा शाखा: काठकादयः येषां

तेषु आगमेषु पक्षपातं विश्वासं अवैदिकेषु जिहासां चेति भावः । जुषति प्राप्नो-
तीति तादृशस्य । अन्यत्र अनन्ताः अपरिमेया: शाखा: विटपा येषां तेषु

आगमेषु वृक्षेषु पक्षाभ्यां छदाभ्यां पातं प्राप्तिं जुषतीति तादृशस्य । प्रकृत्या

स्वभावेन जन्मनैवेत्यर्थः । हरे: पुरुषोत्तमस्य तत्त्वं स्वरूपम् भजति अव-

गच्छतीति तादृशस्य गुरूपसर्पणादिकमन्तरा स्वतःसंपन्नब्रह्मज्ञानस्येति भावः ।
अन्यत्र प्रकृत्या जातिम्वभावात् । हरितत्वं श्यामवर्णत्वम् भजतः । शुकस्य-
शुकाख्य ब्रह्मर्षेः कीरस्य च । सुकृतेन पुण्येन एकेन केवलेन लभ्या

प्राप्या । पुण्यवतां सुलभा पापिनामलभ्येत्यर्थः । अनेकजन्मसंपादित- सुचरित:
परिपाकेनैव भागवतपरिशीलनप्रवृत्तिर्भवतीति भावः । अन्यत्र सुकृतेन शुक्रस्यैव
पूर्वकृतपुण्यविशेषजनितवासनावशेनेति भावः । लभ्या प्राध्प्या । अकृतसुकृतानां
कीराणां वचनरचनाभावस्य दृष्टचरत्वादिति भावः । यद्वा सुष्ठु कृतं करणं
शिक्षाविशेषः तेनैकेनैव लभ्या न पुनः स्वच्छन्दवनचारिणामिति भावः । वाणी
भागवतरूपा प्राधान्येन भगवच्चरितप्रपञ्चनरूपा कीरवाणी च । कस्य वा
आनन्दभरं स्वात्मानन्दाधिगमं ब्रह्मावगतिमिति यावत् । अन्यत्र आनन्दभरं