This page has been fully proofread once and needs a second look.

प्रथमम्सर्ग:
 
१७
 
1
 
!
 
उन्मीलयेदिति – यं वाल्मीकिम् । वाणी वाङ्मया सरस्वती । सुवृत्
ता
शोभनवसन्ततिलकादिवृत्तशालिनी । अन्यत्र सुचरित्रापि । अभिसारिणीव

पुंश्चलीव । "कान्ताभिसरणोद्युक्ता स्मरार्ता साभिसारिका " इत्यमरः ।

लक्षणेल्त्यर्थ: (?) i तद्व्यापारमेवाह । उल्लुङ्घिता अतिक्रान्ता व्त्यक्तेति यावत्

कस्य ब्रह्मणः आननानां वदनानां आळि: पङ्कि: मुखचतुष्टयमित्यर्थः यया

तादृशी सती । वाल्मीके: पूर्व कावं क्वापि छन्दोरूपाया भारत्याः प्रसरश्चतुर्मुख- मुखा
वलिमन्तरा नाभूदिति भावः । अन्यत्र उल्लविङ्घिता अतिक्रान्ता काननानां वना-
नां आळिर्यया तादृशी सती । क्वचित्सङ्केत मुद्दिश्य रहोगमनशीलाया विविक्त-
वनमार्गाश्रयणस्य सुप्रसिद्धत्वादिति भावः । वव्रे वृतवती समाश्रितवती स्वयमेवानु
ग्रहवतीत्यर्थः । विद्याप्राप्तिहेतुभूत- गुरूपासनतदुपदेशग्रहण तद्भ्यासादिश्रमलेश
विनैव निखिलविद्याशेव- धिरभूदिति भावः । अत्र सुवृत्तेति कथनात् यथा कुलाङ्ग-
नापि निरतिशय लावण्यनिधिं कमपि युवानमालोक्य निजभर्तारं मनसापि तदितरा

ननुसन्धानादिकं निखिलं निजचरित्रञ्चातिलङ्घ्य कामपारवश्येनान्यमाम् आश्रयति
तद्वदित्युक्त्या वाल्मीकौ वेधसोऽप्याधिक्ये वक्तव्ये "भारत्या: सुन्दर: सुधीः "
इत्यभियुक्तोक्त्या ब्रह्मातिशायिप्रज्ञाप्रागल्भ्यं वाल्मीकौ प्रतीयत इति व्यतिरेकालङ्कारो
व्यज्यते । वल्मीकात् वामलूरो:।" वामलूरुश्च नाकुश्च वल्मीकं " इत्यमरः ।
जन्म उत्पत्तिः निष्क्रमणमिति भावः । अयमेव कवि: पुरा व्याधरूपेण वने
प्राणिहिंसां कुर्वाण स्सप्तर्षीणामनुग्रहेण श्रीराममन्त्रमपक्रममुपसंगृह्य तमेवावर्तयन्
यथाक्रमतामापाद्यमानेन तेन राममन्त्रेण भगवन्तमनुसन्दवाधानो भक्तिपारवश्ये-
नाचञ्चलतया तपसि स्थितश्चिरात्परितः प्रसर्पद्वल्मीकसन्तानतिरोहिताकृतिबेर्बहोः
कालात्पुन- रासेदुषां महर्षीणामनुग्रहेण महर्षित्वमाससादेति कथात्रानुसन्धेया ।

तादृशो वल्मीकजन्मा । मे मम । समग्रं सकलम् । उक्तिभरं वाग्जालम् ।

उन्मीलयेत् विकासयेत् । उत्पूर्वात् "मील निमीलने " इति णिजन्ताद्धातोर्विधि-
लिङ् । अत्र विकासः प्रसिद्धि : वाल्मीकेरनुग्रहलभ्येति भावः । ततश्च या भारती
 
2
 
८८
 

 
 
¹ The quotation under reference does not occur in the Amarakosa.
The definition of अभिसारिका given there is :– कान्तार्थिनी तु या याति सङ्केतं
सामिभिसारिका । The extract given in the commentary occurs in the
Pratāparudrīya.
 
3