This page has not been fully proofread.

प्रथमस्सर्ग:
 
१५
 
मुधेति - गर्भगृहे वासभूमौ । "गर्भागारं वासगृहं" इत्यमरः । मुधा
व्याजेन । रुदन् विलपन् सन् । वस्तुतः शोकातीतस्य विलापनिमित्ताभावेऽपि
स्वावलम्बितशिशुवेषसमर्थनाय कपटरोदनं राधासमागमसङ्केतभूतमाचरन्निति
भावः । तथा आदातुं गृहीतुम् । समेतां प्राप्ताम् । रुदन्तमुपगृह्य समाश्वासयन्ती-
मित्यर्थ: । रोदनाख्यसङ्केतं विदित्वा सत्वरमागत्य कराभ्यामुपगृहीतवती मिति
भावः । राधां गोपिकाम् । हठेन बलात्कारेण । औत्सुक्येनेति भावः । आलिङ्गय
परिष्वज्य । अमुष्या राधायाः । कुचयो: स्तनयो: । नखाङ्कान् नखरविलेखनानि ।
कुर्वन् तन्वंश्च । मायाशिशु: मायया कपटेन शिशु: मायापरिगृहीतशिशुवेषः ।
उक्तविधया स्वाभिमतरावासङ्गलोलोऽपि प्रेयसीसमाह्वानतदाश्लेषणतत्कुचमर्दनानि
सर्वलोकप्रत्यक्षमनुतिष्ठन्नपि सर्वस्यापि स्वचेष्टितस्य शिशुसाधारण्यसंपादन पूर्वकं
शिशुचरितेन स्वाचरितविटचरितमपलपन्निति भावः । मङ्गलं शुभम् । सर्वाभीष्टोप-
लक्षकमिदम् । आतनोतु विस्तारीकरोतु । आङ्पूर्वात् "तनु विस्तारे " इति
धातोर्लोट् । अत्र मायाशिशुरिति शिशुत्वस्य मिथ्यात्वप्रतीत्या स्ववशमायत्व-
प्रतीत्या च जगदीशत्वेन स्वाभीष्टवितरणसमर्थत्वाभिव्यक्त्या च साभिप्राय-
विशेष्यकत्वात्परिकराङ्कुरालङ्कारः । तस्य सन्नन्तविशेषणाभ्यां समर्थनाद्वाक्यार्थ-
हेतुककाव्यलिङ्गेन बालस्वभाववर्णनरूपस्वभावोक्त्या च सङ्करः । नन्वत्र "लट:
शतृशानचावप्रथमासमानाधिकरणे" इति सूत्रेण मायाशिशुसामानाधिकरण्ये
शतृप्रत्ययाप्रवृत्त्या क्रियान्वयस्य वक्तव्यत्वेऽपि मङ्गलाचरणक्रियायां रोदनस्य
कुचयोर्नखाङ्काचरणस्य चान्वयानुपपत्तिः । न च प्रथमासमानाधिकरणेऽपि
क्वचिद्भवतीत्युक्त्या "सन् देवदत्त : " इत्यप्युदाहृतमेवेति वाच्यम् । गुणक्रिया-
वाचकादेव शतृशानचोर्निषेधः । न पुनद्र्व्यजातिवाचकादिव्यत्रैव तत्तात्पर्यादिति
चेत्सत्यम् । मायाशिशुरिल्यस्य मायया शिशुत्वमभिनयन्नित्यर्थस्यैव विवक्षया
तदभिनयाचरणक्रियान्वयाभ्युपगमेनानुपपत्त्यभावादित्यलं पल्लवितेन ॥ ४ ॥
अथ सकलान्तरायसन्तमसमार्ताण्डं वेतण्डाननं विनायकमभिष्टौति-
रदायसञ्चूर्णितरत्नसानुरजोरैरङ्कजुषो रमण्याः ।
सीमन्तसीमान्तरमादधानस्सिन्दुरितं दीव्यति सिन्धुरेन्द्रः ॥ ५ ॥
 
1 G. reads सिन्धुरेन्दुः ।