This page has been fully proofread once and needs a second look.

प्रथमस्सर्ग:
 
१३
 
८८
 
८८
 
गुणोपलक्षितो महिमा भूमा भगवतो विष्णोस्तेजोमय इति भावः । अणिमाद्यष्ट-
भूतिष्वन्यतमा महिमाख्या भूतिरित्यर्थः । घनश्रीरिति रूपसाम्यमुक्त्वा
शीलसाम्यमपि श्लोषभङ्गयाभिधत्ते । स्थाणुना केवलं परमेश्वरमात्रेण । आतता
आरोपिता ज्या मौर्वी यस्मिन् । शिवातिरिक्तेन केनाप्यारोपयितुमशक्यमिति
भावः । तेनातिदृढत्वं व्यज्यते । मेपक्षे, स्थाणुना केवलं शाखादिशून्येन
स्कन्धावशेषेण वृक्षमात्रेण । जातावेकवचनम् । ईदृशवृक्षत्वजातिमात्रेणेत्यर्थः ।
तेन लतागुल्मादि- शून्यत्वप्रतीत्या अतिचिरपरिचितानावृष्टिदूषितत्वं व्यज्यते ।
आतता व्याप्ता ज्या भूमियंर्यत्रेत्यर्थः । "स्थाणू रुद्र उमापति : " " स्थाणुरस्त्री
ध्रुवश्शङ्क: "
;
कुः " "मौर्वी ज्या शिञ्जिनी " "क्षोणी ज्या काश्यपी क्षितिः " इति
चामरः । धन्ववरं चापवरं मरुदेशं च । "धनुश्चापौ धन्व" "समानौ मरुध-
तेन
न्वानौ " इति चामरः । क्षणात् क्षणकालमात्रेण । तेन विलम्बानपेक्षत्वम्,
तेन क्लेशाभावः, तेन च महासत्त्वगुणत्वं च व्यज्यते । सभङ्गं भङ्गेन छेदेन सहितम्
त्रुटितमिति यावत् । अन्यत्र भङ्गैस्तरङ्गैस्सहितम् । तन्वन् कुर्वन्सन् सीतायाः

जानक्या: शुभाङ्कुकूराणां मङ्गलोदयानाम् समृद्धिधिं पूर्तिम् । आधात् अकरोत् ।
शिवधनुर्भङ्गेन निरतिशयं निजशौर्यं प्रपञ्चयित्वा वीर्यशुल्कां सीतामुपयेम इति
भावः । यतो नारीणां परिणयमूला एव सर्वास्संपद इति भावः । अन्यत्र सीतायां
लाङ्गलमार्गे । "सीता लाङ्गलपद्धति: " इत्यमरः । शुभानां क्षेमङ्कराणाम् अङ्क-
कूराणां सस्यप्ररोहाणाम्' समृद्धिधिं पूर्तिम् । आधात् । आङ्पूर्वात् "डुधाञ्धारण-
पोषणयो: ' इति धातोर्लुङ् । निरन्तरधारा सेचनेन मरुदोषमपोह्य सकलसस्यपरि-
पूर्णमतानीदिति भावः । यत्तदोर्नित्यसम्बन्धात् स इत्यव्याहिध्याह्रियते । स उक्तविशेषण-
विशिष्ट: श्रीरामः । भूत्यै संपदे सर्वविधसम्पत्त्यै । भूयात् सर्वाभीष्टप्रदोऽस्त्वि
ति भावः। महिमाख्यनिधिः सर्वसिद्धिं दद्यादिति च व्यज्यते । अत्र नश्रीरिति वाचक-

लुप्तोपमा । सा च श्लेषसंपादितसमानधर्मेति श्लेषसङ्कीर्णा । क्षणमात्रेण तरङ्गितत्वस्य
तन्वन्निति शतृप्रत्ययलब्धसभङ्गीकरणतुल्यकालमङ्कुर समृङ्ख्द्ध्याधानस्य चायोगेऽपि
योगवर्णनारूपातिशयोक्तिगर्भिता । प्राचीनाः खलु सङ्करस्त्रिविध इत्याचख्युः
अङ्गाङ्गितासन्देहपदोदितत्वभिदया । केचित् समत्वादप्यङ्गाङ्गित्वमनेकधा

1 The manuscript wrongly reads शस्त्रप्ररोहाणाम् .
 
८८