2023-04-05 15:16:42 by jayusudindra
This page has been fully proofread once and needs a second look.
अत्र यद्यपि प्राथमिकपद्यादौ नभोदेवताकशून्यत्वफलकस्तगणो न
प्रयोगमर्हति । तदुक्तं – "वर्णं गणं च काव्यस्य मुखे कुर्यात्तु शोभनम् "
इति तथाप्यादौ वकारस्यामृतबीजस्य भद्रवाचकस्य सन्निवेशात् तथाविधस्यापि तगणस्य मध्ये लक्ष्मीवाचकमाशब्दघटितत्वात्तस्य च पादचतुष्टये तुल्यतया सन्निवेशाच्च गणप्रयुक्तो दोषो न सम्भवतीति हृदयं वेदितव्यम् । तदुक्तं "स्वेष्टदेवादिमन्त्रे वा बीजे वा मङ्गलार्थके । प्रबन्धादौ प्रयुक्ते तु गणदोषो न विद्यते " इति ॥ अन्यत्रापि "देवतावाचकाश्शब्दा ये स्युर्भद्रादिवाचका: । ते सर्वे नैव दुष्यन्ति [ गणतो ] वर्णतोऽपि वा " इति । अत एव कालिदासकृतौ कुमारसम्भवे – अस्त्युत्तरस्यामिति; भोजराजकृतौ चम्पूरामायणे लक्ष्मीं तनोत्वित्यादिपद्येषु शून्यत्वफलकस्य तगणस्य; तथा माघकाव्ये – श्रियः पतिरिति ; भारविकृते किरातार्जुनीये –[^1] श्रियः कुरूणामिति सूर्यदेवताकस्य रोगफलकजगणस्य च प्रयोग इत्यादि: प्राचीनानां प्रयोगोऽपि साधु सङ्गच्छते ॥ १ ॥
इत्थं ईश्वरप्रार्थनानन्तरं लोके क्वचित्कृतेऽपि मङ्गले निर्विघ्नपरिसमाप्त्य-
दर्शनेन विघ्नबाहुळ्यस्यैव तन्निमित्तत्वावश्यंभावेन तथाविधविघ्नसन्देहेनाथ च "ग्रन्थादौ स्वे [ ष्टदैवं ] च गुरूनपि कवीनपि । पूर्विकान् स्वं च राजानं देशं कालं च कीर्तयेत्" इत्यभियुक्तसमाचरणेन तथाविधमेव बहुविधमङ्गळमाचरन्नादौ मनोवाक्कायकृतसर्वपापनिवर्तकं श्रीरामनाम्ना कृतावतारं भगवन्तं परमपुरुषं प्रार्थयते -
यः स्थाणुना केवलमाततज्यं तन्वन्क्षणाद्धन्ववरं सभङ्गम् ।
सीताशुभाङ्कूरसमृद्धिमाधाद्भूत्यै स भूयान्महिमाघनश्रीः ॥ २ ॥
य इति ॥ धनस्य सजलजलदस्येव श्री: शोभा यस्य तादृशः
नीलमेघश्यामल इत्यर्थः । तेन घनसमानशीलत्वमपि व्यज्यते । अन्यत्र घनानिरन्तरा अपरिक्षीयमाणेति भावः ; श्री: संपत् येन तादृशः । महिमनामकसिद्धौ सम्प्राप्तायां सर्वासामपि संपदां परिपूर्णत्वसम्भवादिति भावः । यो वक्ष्यमाण-
१
[^1] The manuscript reads रविकृतस्य.