This page has been fully proofread once and needs a second look.

प्रथमस्सर्ग:
 
११
 
परिहरणीयतया परिचिन्तितस्यापि विप्रयोगस्य खेदावहतया विप्रलम्भशृङ्गारश्च ।
प्रव
प्रबन्धप्राथमिक पद्यप्रतीयमानाभ्यां च ताभ्यां प्रबन्धप्रतिपिपादयिषितयो रुक्मि
णीवासुदेवालम्बनयोस्तयोरभिव्यक्तिश्च । अत्र स्त्रीपुंसलाञ्छनान्तराळवर्तित्वक्रमं
 
लृ
कृशत्वस्तम्भाकारत्वादि-
धर्मसम्बन्धेन निमित्तेन रोमावल्यां सीमाशिलातादात्म्य-
सम्भावना स्वरूपोत्प्रेक्षा । "यत्रान्यधर्मसम्बन्धादन्यत्वेनोपतर्कितम् । प्रकृतं हि

भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥" इति लक्षणात् ॥
 

नन्विवशब्दस्य सादृश्यवाचकतया उपमैवास्तु । मैवम् । तर्हि यत्र

क्वचनावस्थितसीमाशिलासाम्यमात्रे वक्तव्ये स्त्रीपुंसलाञ्छनान्तराळ- वर्तननिमित्तक-
तत्तल्लाञ्छनसीमाव्यवहारोपशमार्थत्वादिविशेषगवेग्विषण प्रयासवैयर्थ्यापातात् । अत
एव "यदायमुपमानांशो लोकतस्सिद्धिमृच्छति । तदोपमैव येनेवशब्दस्सादृश्य-
वाचकः ॥ यदा पुनरसौ लोकादसिद्धः कविकल्पितः । तदोत्प्रेक्षैव येनेवशब्द -
स्संभावनापरः ॥" इति प्राचीनप्रसिद्धिः । इह तु सीमाशिलामात्रस्य
लोकसिद्धत्वेऽप्युक्तविशेषण- विशिष्टत्वेन रूपेण कविनैव कल्पितत्वात् । न
चास्यास्सीमाविभागो न फलमित्यफले फलत्वकल्पना फलोत्प्रेक्षा किं न स्यादिति
वाच्यम् । रोमावल्यास्सीमाशिलात्वसिद्धिमन्तरा तस्याः फलजिज्ञासानुदयेन

तत्फलत्वेन सीमाविवादशमनस्योत्प्रेक्षणीयत्वासंभवात् । सोमावतंस इति

विशेष्यवाचकस्य पूर्वोक्तता पहरणक्षमत्वाभिप्रायगर्भतया परिकराङ्कुरेण तथा
प्रतिपादं द्वितीयवर्णस्य मकारस्यावृत्त्या वृत्त्यनुप्रासरूपशब्दालङ्कारेण तिलतण्डुल-
न्यायेन मेलनात्संसृष्टि: । शब्दार्थालङ्कारयोरे कशब्दोपात्तत्वेनैक वाचकानुप्रवेश-
लक्षणस्सङ्कर इति केचित् । पर्यायासहिष्णुपदविन्यास एव तथाविधस्सङ्करो
नान्यत्रेति तु परमार्थ: । इहैकाक्षरानुवृत्तावपि स्थानविन्यासनैयल्त्यस्य विदग्धकृति-
त्वेन छेकानुप्रास एवेत्यपरे । एवं भगवद्विषये मङ्गले निष्पन्ने अर्धनारीश्वरधर्मेण
तन्नामकस्य स्वगुरोरप्य- नुस्मरणाद्गुरुसञ्चिन्तनरूपमङ्गलान्तरमप्यनुनिष्पन्नं भवति ।

अस्मिन्सर्गे प्रायेणेन्द्रवज्रावृत्तम् । "स्यादिन्द्रवज्रा यदि तौ जगौ ग : " इति

लक्षणात् । क्वचिच्च " उपेन्द्रवज्राजतजास्ततो गौ" इत्युक्तलक्षणोपेन्द्रवज्रा ।

क्वचिच्च द्वयोरनयोर्मेळने "अनन्तरोदीरितलक्ष्मभाज: पादा यदीया उपजातयस्ता:"
इत्युक्तलक्षणोपजातिवृत्तमपि संभवति ।
 
"
 
..