This page has been fully proofread once and needs a second look.

हृते कलियुगे वर्षैर्वेदाग्निग्रहसागरैः ।
यज्ञवेदेश्वरेणैषा कृता मौक्तिकमालिका ॥
इह हि —
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिवृतये कान्तासम्मिततयोपदेशयुजे ॥
इति प्रामाणिकप्रसिद्ध्या पुण्यश्लोकगुणवर्णनरूपकाव्यस्य यशःप्रमुखन हुतरदृष्टादृष्ट फलोपधायकत्वे निश्चिते तत्रापि भगवच्चरितरूपत्वेन परमपुरुषार्थभूतमोक्षोपयोगि भगवद्भक्त्युन्मेषं प्रति च प्रभुसम्मिताच्छब्द- प्रधानाच्च प्रत्यवायभीत्या प्रवर्तकाद्वेदात् तथा सुहृत्सम्मितेभ्योऽथप्रधानेभ्यो हिताहितविचारसापेक्षतया प्रवर्तकेभ्यः पुराणादिभ्यश्च कान्तासम्मितस्य रसप्रधानस्य श्रोतुस्सरसतापादनेनाविचारतस्सरभसप्रवर्तकस्य काव्य- स्याभ्यर्हितत्वेन सहृदयानामात्मनश्च तथाविधनिखिलपुरुषार्थानाशासानो लोकानुग्रहाय वसुदेवात्कृतावतारस्य भगवतः कृष्णस्य राधान्येनं रुक्मिणीपरिणयप्रपञ्चनरूपं रुक्मिणीकल्याणाख्यं काव्यमारभमाणः
श्रीराजचूडामणिदीक्षितो नाम महाकवि : प्रारिप्सितप्रबन्धपरिसमाप्ति- परिपन्थिप्रत्यूहप्रत्याख्यानाय स्वाभीष्टदेवतात्मकं स्त्रीपुंसाकारैकशरीरा- वलम्बनेन स्वम्य जगज्जनकत्वादिकमभिव्यञ्जयन्तं भगवन्तमर्धनारीश्वरम् अधिकृय श्रेयःप्रार्थनरूपं मङ्गलमाचरन्स्वम्याग्रजन्मानमर्धनारीश्वर- नामानमात्मनो विद्यागुरुमप्यर्थादनुसन्धत्ते-
वामालकावल्लभभावमुद्रासीमाविभागेन्द्रमणीशिलेव ।
रोभावली राजति यस्य मध्ये सोमावतंसः स सुखाय भूयात् ॥१॥
वामेति – यम्य प्रस्तूयमानस्य अर्धनारीश्वरस्येयर्थ: । मध्ये वामदक्षिण-
भागयोरन्तराळे न पुनर्वलग्ने रोमावल्या नाभेरूर्ध्व एवावस्थानेन मध्यावस्थिप्य भावात् । न चोर्ध्वापवर्गायास्सीमाशिलाया मूलावलम्बेनैवा वस्थानस्य वक्तव्यतया उर:पर्यन्ताक्रमणं प्रतिभासमात्रमेवेति वाच्यम् । देहावलम्बनेनार्धांशरूपतया
तादृशसम्भावनानिमित्ततया मध्यशब्दवाच्य- वलग्नोध्वेगतनाभेः परत एव