This page has not been fully proofread.

प्रथमस्सर्गः
 
हते कलियुगे वर्वेदाग्निग्रहसागरैः ।
 
यज्ञवेदे वरेणैषा कृता मौक्तिकमालिका ।
हहि —
 
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिवृतये कान्तासम्मिततयोपदेशयुजे ॥
 

 
ति प्रामाणिकप्रसिद्ध्या पुण्यश्लोकगुणवर्णनरूपकाव्यस्य यशःप्रमुखन हुतरदृष्टादृष्ट-
फलोपधायकत्वे निश्चिते तत्रापि भगवच्चरितरूपत्वेन परमपुरुषार्थभूतमोक्षोपयोगि
नगवद्भक्त्युन्मेषं प्रति च प्रभुसम्मिताच्छब्दप्रधानाच्च प्रत्यवायभीत्या प्रवर्तकाद्वेदात्
तथा सुहृत्मम्मितेभ्योऽयंप्रवानेभ्यो हिताहितविचारसापेक्षतया प्रवर्तकेभ्यः
पुराणादिभ्यश्च कान्तासम्मितस्य रसप्रधानस्य श्रोतुस्सरसतापादनेनाविचारत-
सरभसप्रवर्तकस्य काव्यस्याभ्यर्हितत्वेन सहृदयानामात्मनश्च तथाविधनिखिल
पुरुषार्थानाशासानो लोकानुग्रहाय वसुदेवात्कृतावतारस्य भगवतः कृष्णस्य
राधान्येनं रुक्मिणीपरिणयप्रपञ्चनरूपं रुक्मिणी कल्याणाख्यं काव्यमारभमाणः
श्रीराजचूडामणिदीक्षिनो नाम महाकवि : प्रारिप्सितप्रबन्धपरिसमाप्तिपरिपन्थि-
पत्यूहप्रयाख्यानाय स्वाभीष्टदेवतात्मकं स्त्रीपुंसा का रैकशरीरावलम्बनेन स्वम्य
नगज्जनकत्वादिकम भिव्यञ्जयन्तं भगवन्तमर्धनारीश्वरमधिकृय श्रेयः प्राथेनरूपं
ङ्गलमा चरन्त्वम्याग्रजन्मानमर्धनारीश्वरनामानमात्मनो विद्यागुरुमप्यर्थादनुसन्धत्ते-
वामालकावल्लभभावमुद्रासीमाविभागेन्द्रमणीशिलेव ।
 
रोभावली राजति यस्य मध्ये सोमावतंसः स सुखाय भूयात् ॥१॥
 
वामेति – यम्य प्रस्तूयमानस्य अर्धनारीश्वरस्येयर्थ: । मध्ये वामदक्षिण-
नागयोरन्तराळे न पुनर्वलग्ने रोमावल्या नाभेरू एवावस्थानेन मध्यावस्थिय
नावात् । न चोपवर्गायास्सीमाशिलाया मूलावलम्बेनैवावस्थानस्य वक्तव्यतया
उर: पर्यन्ताक्रमणं प्रतिभाममात्रमेवेति वाच्यम् । देहावलम्बनेनागरूपतया
नाशसम्भावनानिमित्ततया मध्यशब्दवाच्यवलग्नोध्वंगतनाभेः परत एत्र
 
2