This page has not been fully proofread.

रुक्मिणीकल्याणे सव्याख्याने
ये काव्येष्वनतिप्रबुद्धमतयो ये चाप्यबोधभ्रमा-
त्काव्यस्यास्य विलोकने प्रवचने वीतादरास्सूरयः ।
तद्वैयात्यक रावलम्बनकृते सैषा मम व्यावृति -
 
स्तन्मे साहसमीदृशं कृतधियस्सन्तः क्षमन्तामिदम् ॥
भास्वद्भिः कविसूक्तिमौक्तिकगणैर्ग्रथ्नामि बुध्या स्वया
मालां योजनया गुणेन सुदृशां हृत्कण्ठभूषाकृते ।
सा चेन्नानुमता सतां यदि तदा नव्यानमीभिः पुन-
र्भव्यामारचयन्तु काव्यमिदमप्याकल्पमाकल्पताम् ॥
यद्यप्यत्र विवेचिता न च गुणाश्शय्यारसालङ्कृति-
छन्दोऽप्यङ्गविपाकवृत्तिविभवा रीतिर्नवा प्रक्रिया ।
यान्त्येव प्रमुढं तथापि सुधियः प्रेमानुरोधान्मयि
 
प्रायो लोहलबालवाचि दधते मोदं महान्तो न किम् ॥
 
प्रवन्धेऽस्मिन्निन्धे बहुगुणरसालङ्कृतिभरः
 
प्रधानं बालानामनतिगहनं यच्च भवति ।
अवश्याख्येयं तल्लिखितमितरद्यन्मम पुन...
र्मनीषातीतं तन्निखिलमिदमाभाति सुधियाम् ॥
 
अज्ञानानवधानाभ्यामप्यावश्यकहेययोः ।
अलेखनालेखनोत्थमागस्सोढव्यमत्र मे ॥
 
पद्यानि बाणवशतः पतिताक्षराणि
 
यानीह मामकपदैर्घटितानि सन्तः ।
भूषान्तरे वचन भर्मणि वर्णहीन-
धात्वन्तरेण घटनामिव मर्षयन्तु ॥