This page has been fully proofread once and needs a second look.

कंसध्वंसकान्तिमत्युपयमौ काव्ये तथा राघव-
ख्यातिं मञ्जुळभाषिणीं कमलिनीहंसाभिधां नाटिकाम् ।
चित्राख्यामपि मञ्जरीमकृत यश्शृङ्गारसर्वस्वम-
प्यानन्दोत्तरराघवं च विदधे भाणं क्रमान्नाटकम् ॥
 
यश्च श्रीरघुनाथभूपविजयं साहित्यसाम्राज्यम-
प्यालङ्कारिकसर्वमर्मविशदीकारक्षमं निर्ममे ।
योऽकार्षीदपि काव्यदर्पणमथालङ्कारचूडामणिं
तेनेदं खलु रुक्मिणीपरिणयाभिख्यं च काव्यं कृतम् ॥
 
तस्मात्केशवदीक्षितादुदभवन्नाम्ना तपोवैदुषी-
विज्ञानैः प्रथितः पतञ्जलिरिति प्रत्यब्दसत्रव्रतः ।
तस्मात्केशवदीक्षितस्समुदभूदद्वैतविद्यागुरु-
स्तस्माच्चाजनि रामचन्द्रमखिराट् षड्दर्शनीवल्लभः ॥
 
यश्चक्रे लवणासुरस्य निधनं चम्पूप्रबन्धं तथा
ख्यातं केरळभूषणं नवरसासारैकवाराकरम् ।
तस्मादाविरभूदनन्तमहिमा साहित्यसौहित्यवा-
नार्यः केशवदीक्षितस्तदुदितश्श्रीयज्ञवेदेश्वरः ॥
 
यो वासिष्ठं (?) गरिष्ठामकुरुत सुकृतैः कर्मनिष्ठां लघिष्ठां
सत्रैस्सुत्राममुख्यानखिलदिविषदः प्रीणयन्प्रीणयन्नॄन् ।
वेदैश्शास्त्रैः पुराणैस्स्मृतिमुनिसमयैर्निश्चितार्थः प्रजानां
धर्माधर्मव्यवस्थामतनुत भुवने निग्रहानुग्रहाभ्याम् ॥
 
तस्यासीत्केशवाख्यस्सकलनिगम सिद्धान्तसिद्धार्थवेत्ता
सूनुस्तस्माच्च जज्ञे नृपशतमहितो यज्ञवेदेश्वराख्यः ।