This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 

 
उत्सन्नानुज्जहार स्वभुजयुगलसच्छङ्खचक्रस्समस्ता-

न्वेदान्वेदार्थमूलान्यपि निखिलपुराणेतिहासादिमानि ॥

 
यश्
श्री केशवयोगिवर्यचरणाद्यं पूर्णपात्रात्मना
 

मन्त्रं सिद्धमवाप दिव्यमथ तत्सिद्धयै तपस्यन्पुनः ।

नित्याध्यक्षितदेवतो जगदिदं कर्तुं च हतुर्तुं क्षमां
 

सिद्धिधिं प्राप्य निजान्वयेऽकृतसुताग्रीयेषु तस्याभिवाधाम् ॥

 
यत्कारुण्यार्द्रदृष्टिप्रसरपथजुषोऽनेडमूकाश्च मूका

यद्गेहालिन्दशारीशुकमुखविहगाः पुत्रिकाश्चित्रसङ्घाः ।

द्विस्सप्ताष्टाष्टविद्यास्वतिचतुरधियो दुर्वहाखर्वगर्वा-

न्सर्वान्दुर्वादिवर्गान्बहुळशशिकला निर्विशेषानकुर्वन् ॥
 

 
विद्यायां यस्य यस्यां मतिरतिविपुला तेन तस्यां विवादे

जीयेतासौ न चेत्तत्पदमधिमकुटं नः प्रतीपं न चेत्तत् ।

इत्येवं संविदा यः सकलबुधजनानाप निर्जित्य घस्त्रे
 

दन्तिद्योतिप्रदीपं मणिमयकटके पादयोर्जैत्रघण्टाम् ॥

 
मत्तानां वारणानां शतमपि च शतं वाजिनामुच्छ्रितानां

नानाभूषोज्ज्वलानां कनकमणिमयस्यन्दनानां शतं च ।

योघाधानां शक्तिकुन्तक्षुरवरनलिकक्षेपिणीचापबाण-

प्रासानासेदुषां तत्प्रतिभटजयिनामग्रतो यस्य यान्ति ॥

 
राज्ञामाज्ञाविवर्ता इव वरसुदृशो यत्पुरस्तादनल्पा-

कल्पा नृत्यन्ति गायन्त्यतिमधुरतरप्रोद्यदातोद्यनादैः ।

अन्याः क्षौमातपत्रव्यजनयुगचलच्चामरोद्यत्पताका-

ढक्कावीटीकलाची विविधमकरिकातोरणान्युद्वहन्ति ॥