This page has not been fully proofread.

रुक्मिणीकल्याणे सव्याख्याने
 
१४८
 
प्रस्तुतहरिणपरैरेव विशेषणविशेष्यवाचकैरप्रस्तुतकृष्णवृत्तस्यापि प्रतीत्या प्रकृता-
प्रकृतश्लेषालङ्कारः । अत्र बहुषु पुस्तकेषु अग्रसरेण न किमिति पाठो दृश्यते । तदा
न किं सुखमनुभूयते अनुभूयत एव । अतो बलवदुःखितस्यापि क्वचित् काल-
विशेषे सुखमप्यनुभूयेतैवेत्यर्थे मृग एव दृष्टान्तीकृतः । कामिनीवचनेनेति तदेव
हरेरुपश्रुतिरूपतया रुक्मिणीप्रात्या वर्तमानविरहार्तेरनुपद निवृत्तिद्योतकमिति
मन्तव्यम् । अनेनैव कविना काव्यदर्पणे अमुमेव पद्यं श्लेषालङ्कारे उदाहृतवता
चिरमिति पठित्वा तथैव विवृतत्वात् तादृश एव पाठ: प्रथमलिखित इति
मन्तव्यम् । नत्कूटकं नाम वृत्तम् । " हयदशभिर्नजौ भजजलागिति नत्कूटकम् "
इति लक्षणात् ॥ ७३ ॥
 
इति श्रीविश्वामित्रकुलकलशपारावार का सुधाकर श्रीबालचन्द्रार्यतातचरणकरुणापरीणाह-
समासादितविविधविद्याविलासेन यज्ञवेदेश्वरेण विरचितायां रुक्मिणीकल्याणाख्य-
सरसमहाकाव्यव्याख्यायां मौक्तिकमालिकाख्यायां द्वितीयस्सर्गस्संपूर्णः ॥