This page has not been fully proofread.

द्वितीयस्सर्गः
 
१४५
 
">
 
अदृश्यस्य दृश्यत्वमित्यर्थः । अन्यत्र मे मम अक्षिगतत्वं द्वेष्यत्वम् । गतः प्राप्तः ।
" द्वेष्ये त्वक्षिगतो वध्यः इत्यमरः । प्राणिनामदृष्टिगोचर एव सन् महामायावीव
विरहिणो बाधसे इति भावः । अत्र पूर्वार्धे पर्यस्तमेरुस्थिरत्वस्य तत्करणोद्यमरूप-
विरोधस्य मे अरुरिति पदभङ्गेन व्रणकरणोद्यमरूपार्थपरतया उत्तरार्धेऽदृष्टिगोचर-
स्य दृष्टिगोचरत्वमिति विरोधस्य द्वेष्यत्वरूपार्थपरतया चाभासीकरणाद्विरोधा-
भासालङ्कारः ॥ ६९ ॥
 
अनक्षिलक्ष्यो हरिणाश्व वाधसे वियोगिनो विक्रमिणां न स क्रमः ।
पथि त्वमक्ष्णः पतितो यदि क्षणं तदीक्षणोल्कातरलीकृतो भवेः ॥
 

 
अनक्षीति -- हे हरिणाश्व मृगवाहन वायो । त्वं भवान् । अनक्षिलक्ष्यः
अदृष्टिगोचरस्सन्। वियोगिनः विरहिजनान् । बाधसे बाणैर्विध्यसीत्यर्थः । सः
स्वयं तिरोधाय प्रतिपक्षवेधनरूपोऽर्थः । विक्रमिणां शूराणाम् । न क्रमः क्रमो न
भवति न्यायमार्गो न भवति । प्रतिपक्षिण : प्रतिप्रहारावकाशाभावे युद्धस्याधर्मत्वात् ।
प्रतिप्रहार भीरूणामेव तिरोधानप्रतीक्षणात भीरुत्वापवादहेतुतया शूरत्वप्रख्याति-
भाजामत्यन्तगर्त्योऽयमित्यर्थः । सर्वथा शूरो न भवसीति भावः । तदेव
विवृणोति । त्वमित्यनुषज्यते । क्षणं क्षणकालम् । अक्ष्ण: नयनस्य, अर्थात्
परिपन्थीभूतानां वियोगिना मित्यर्थः । पथि मार्गे । पतितो यदि गतश्चेत् ।
तेषां विरहिणामीक्षणान्येव दृष्टय एव उल्का : अङ्गारखण्डा: परमशत्रुगोचरी-
करणेन खेदक्रोधारुणा इति भावः । ताभि: कलुषीकृतः व्याकुलीकृतः । भवे:
स्या: । क्षणमात्रमपि विरहिदृग्गोचरश्चेत् सद्य एवं विरहिजननयनानलज्वाला-
प्रदग्धो भवेरिति भावः । अत्रादृश्यतया वेधनस्य शूराननुरूपत्ववर्णनाद्विषमा-
लङ्कारः । तिरोभूय विरहिव्यथनं प्रति विरहिजनवीक्षणोल्कापातस्य हेतुत्वप्रतीत्या
हेतूत्प्रेक्षा व्यङ्गया ॥ ७० ॥
 
वियोगिनां मारुत वीक्षणोल्कया विपत्तिशङ्की निजवाहनस्य ते ।
अनक्षिलक्ष्यत्वकथोपदेशने स्मरो बताचार्यक्रमाचचार किम् ॥ ७९ ॥
 
19