2023-03-26 16:29:35 by ambuda-bot
This page has not been fully proofread.
द्वितीयस्सर्ग:
१४३
शथिल: आज्ञाविधेयेष्वपि युक्तवियुक्तयुवलोकेषु कुण्ठितप्रसार इति भावः ।
क्रमः पराक्रमो यस्य तादृशः । भवति न किं भवत्येवेत्यर्थः । ग्रीष्मे
मुक्तयोरेवाङ्गसङ्गभङ्गेन सङ्गमेच्छानुत्पादेन विरहिणामपि तत्र विशेष-
यथाभावादिति भावः । अत: पवनसाङ्गत्ये मदनस्याज्ञाप्रसरस्तदभावे
दभाव इत्यन्वयव्यतिरेकाभ्यां पवनस्यैव विरहिव्यथानिमित्ततया अयमेव
मुख्यतया निन्द्य इति भावः । अत्र पवननिन्दाया: प्रतिज्ञाताया: निदाघत
त्युत्तरवाक्यार्थेन समर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ ६६ ॥
अथ षड्भि: पवनमेवोपालभते-
विदेहकन्याविरहार्तिविह्वलीभवत्ककुस्थस्थपतिप्रमोदनः ।
प्रभञ्जनायुग्जनताविभञ्जनात्वदाञ्जनेयो जनिमासदत्कथम् ॥
-
विदेहेति – हे प्रभञ्जन प्रकर्षेण भञ्जयति खण्डयति विरहिजनानिति
नादृशस्तस्य सम्बुद्धिः विरहिविहिंसन वायो । विदेहकन्याया: सीतायाः विरहार्त्या
वैयोगज्वरेण विह्वलीभवन्तं व्याकुलतां प्राप्तवन्तं ककुस्थस्थपति ककुस्थ-
कुलसार्वभौमं रामं प्रमोदयति आनन्दयति सीतावृत्तान्तावगमनादिना
वेनोदयतीति तादृशः । आञ्जनेयः अञ्जनानन्दनः । वायुसुतत्वे अविवादस्फोरणाय
अञ्जनासुतत्वोक्तिः । अयुग्जनतां विरहिजनसंहति विशेषेण भञ्जयतीति तादृ-
ज्ञात् । त्वत् भवतः । जनि उत्पत्तिम् । कथमासद त्किमित्यभजत् । आपूर्वकात्
कात् "पद्ल विशरणगत्यवसादनेषु " इति धातोट् । कारणगुण-
जन्यत्वात् कार्यगुणस्य कथं विरहिजनमहोपकारिणो हनूमतो विरहिप्राणापहा-
रेणस्त्वत्त: उत्पत्तिरत्यन्तविरुद्धेति भावः । विरुद्धकार्योत्पत्त्या विषमालङ्कारः ॥
८८
"
अवैगि मन्दानिल चन्द्रनाचलो भवत्प्रसूर्भाग्यविपर्ययेण नः ।
पितामहमीतिमता हनूमता निपातितस्सेतुकृते न नीरौ ॥ ६८ ॥
अवैमीति – हे मन्दानिल मलयपवन । भवत्प्रसू: त्वदुत्पादहेतुः ।
चन्दनाचलः मलयशैलः । मृदुगते : दक्षिणपवनस्य मलयादुत्पत्तेः सर्वानु
1 G. पितामहप्रीतिकृता.