This page has not been fully proofread.

द्वितीयस्सर्गः
 
१३९
 
मृतैर्हगूष्माणं निर्वापितवानिति भावः । तति शेषः । तस्मिन् पक्षे त्रयाणां
जगतां प्रभुनेंता । जगतामखिलापदपनयनेन रक्षक इत्यर्थः । अर्थात् परमेश्वरः ।
पान्थानां विरहिणां घस्मरं भक्षकं विरहि विहिंसकमित्यर्थः । जगदहितकारितया
जगन्नेत्रा निग्राह्यमिति भावः । भवन्तं त्वाम् । पुनः अनन्तरमपि । पुनरुज्जीवना-
नन्तरमपीत्यर्थः । अधक्ष्यत् दग्धमेवाकरिष्यत् । अद्धा निश्चितम् । जगन्नेतुर्भगवतः
जगदानुकूल्याय जगद्धिंसकस्य सकृदग्धस्यापि पुनरुज्जीवितस्य तव पुनरपि
पूर्ववदेव दहनं यतो नाकरोदतोऽस्य नेत्राग्निरेव त्वत्सुहृद्भूतेन चन्द्रेण स्वीया -
मृतर्निर्वापित एवेति निश्चीयत इति भावः । अत्र अद्य यदि हरनेत्राग्निश्शमितो
न स्यात्तदा मदनः पुनरदग्धो न स्यात् दग्ध एव स्याद्यतो न दग्धः ततोऽग्निः
शमित एवेति मदनदाहस्य परिदृश्यमानस्यान्यथानुपपत्त्या तदुपपत्त्यर्थं शिव-
शिरोगतं मनसा विकृतं स्वीयामृतैर्हरनयनोष्णनिर्वापणं परिकीर्त्यत इत्यर्था
पत्तिरलङ्कारः । तत्रोपशमस्य मदनसचिवीभूतचन्द्रामृतसेचनहेतुकतया संभाव-
नायुपकरोतीति सङ्करः । परिकरपरिकराङ्कुराभ्यां संसृष्टिः ॥ ६१ ॥
 
द्वयोः समा वां सुमनोवरेषुता तथा सुपर्वाश्रयधन्वधारिता ।
2 तथापि दग्योऽसि दृशा हरेण यत्तदेतदध्वन्यवधोदितं फलम् ॥६२॥
द्वयोरिति — द्वयोः उभयोः अर्थिप्रत्यर्थिभूतयोरित्यर्थः । वां युवयोः
शिवस्य तव चेत्यर्थ: । सुमनोवरेषुता सुमनसां देवानां वरः श्रेष्ठः विष्णुरित्यर्थः ।
"अग्नि देवानामवमो विष्णुः परम:" इति श्रुतेः । स एवेषुर्बाणो यस्य, अन्यत्र
सुमनसां कुसुमानां वराणि श्रेष्ठभूतानि अरविन्दादीनि इषवो यस्य तस्य
भावस्तत्ता । तथा तद्वत् । सुपर्वणां देवानां आश्रयो मेरुः अन्यत्र शोभनपर्वणां
खण्डसन्धीनां आश्रयः पुण्ड्रेक्षुः स एव धन्वा धनुः धरति बिभर्तीति तादृशः तस्य
भावस्तत्ता । त्रिपुरसंहारावसरे मेरोश्चापत्वस्य हरेर्बाणत्वस्य शिवे, तथा इक्षोः
कोदण्डत्वस्य कुसुमानां बाणत्वस्य च मदने, प्रसिद्धत्वादिति भावः । समा तुल्या ।
धनुर्बाणयोरेकरूपत्वमुभयोरिति भावः । तथापि शस्त्रसाम्ये सत्यपीत्यर्थः ।
हरेण शिवेन त्वत्सदृशेनैवेत्यर्थ: । दृशा क्रूरदृष्टिपातमात्रेणेत्यर्थः । दग्धोऽसि
 
2 G. अथापि
 
1 G. कथा.