This page has not been fully proofread.

रुक्मिणीकल्याणे सव्याख्याने
 
मधुवैरित्वकृतवसन्तक्रोधस्याहेतोर्हेतुत्ववर्णनादसिद्धविषया हेतूत्प्रेक्षा । समुदिते
पद्ये तु एकेनानेकधोल्लेखादुक्तालङ्कारोत्थापित: उल्लेखालङ्कारः ॥ ५९ ॥
 
१३८
 
पुरगुहा फालविलोचनानले पुरा भवन्तं मनेन्नीकृतम् ।
सुधाभिरुज्जीवयति स्म किं न्वदः शिरस्स्थितस्त्वत्सुहृदिन्दुपातकी ॥
 
पुरद्रुहेति - - हे मदन । पुरा प्राक् । सेनापतिमभिलषद्भिरिन्द्रादिभिर्देवैः
कुमारोत्पत्तये पार्वतीपरमेश्वरसंघटनार्थ प्रोत्साहितेन भवता भगवति परमेश्वरे
बाणगोचरीक्रियमाणे सतीति भावः । पुरगुहा त्रिपुरारिणा । मन्दस्मित-
मात्रभस्मीकृतपुरत्रयेणेति भाव: । फालविलोचनानले ललाटनेत्रगतकालानले ।
इन्धनीकृतं दाह्यतां नीतम् । प्रदीपशलभन्यायेन स्वयमेवाभिनिपात्य भस्मी कृतमिति
भावः । भवन्तं त्वाम् । अदः शिरस्स्थितः अमुष्य शिवस्य शीर्षावस्थितः । त्वत्सुहृत्
भवन्मित्रम् । इन्दुरूपः पातकी उक्तविधया महापापकृत् । सुधाभि: अमृतैः
स्वशरीरसंभृतैरिति भावः । उज्जीवयति स्म किं नु उदजीवयत् किमु । लट्-
स्मयोगात् भूतार्थता । अमृताप्लवने मृतस्य भस्मावशेषत्वेऽप्युज्जीवनसंभवादिति
भावः । अन्यथा कालाग्निदग्धस्य कथं पुनरुत्थितिरिति भावः । अत्र हरनय-
नानलदग्धस्य पुनर्दर्शनानुमितेन चन्द्रकृतत्वेनाव्यवसितमुज्जीवनं प्रति तद्गतस्या-
मृतस्य हेतुत्ववर्णनाद्धेतूत्प्रेक्षा । अपुनरुत्थानस्य निश्शेषशत्रुनिषूदासमर्थाभिप्राय
गर्भस्यादः शिरस्स्थित इति विशेषणस्य सुहृदिति विशेषणस्य च सन्निवेशात्
परिकरपरिकराङ्कुरैः संसृष्टिः ॥ ६० ॥
 
निशाकरस्त्वत्सचिवो निजामृतैः संमीलयिष्यदृशमूष्मणा न चेत् ।
अधक्ष्यदद्धा त्रिजगत्प्रभुः पुनर्भवन्तमङ्ग स्मर पान्थघस्मरम् ॥ ६१ ॥
 
निशाकर इति – अङ्गेल्यामन्त्रणे हे अङ्ग स्मर । अयं त्वत्सचिवः भवतोऽ-
मात्यः चन्द्र इत्यर्थः । निजामृतैः स्वकीयैः सुधाद्रवै: । दृशं नेत्रम् । अर्थात् शिवस्य
ललाटनयनमित्यर्थः । ऊष्मणा तापेन औष्ण्येन । न संमीलयिष्यत् चेत् अनि-
मीलितं नाकरिष्यद्यदि । प्रशमितोष्णभावन्नातनिष्यद्यदीत्यर्थः । अत एव स्वीया-
1 G. किं नुतः