2023-03-26 16:29:33 by ambuda-bot
This page has not been fully proofread.
रुक्मिणीकल्याणे सव्याख्याने
पञ्चविधानामप्याश्रयभूते । त्वयि भवति । कृपा अनुकंपा । कुतः कस्मात् । उदेति
उद्भवति। नोदेत्येवेत्यर्थः । बतेति कष्टे । अल्पपापिनो निर्घृणत्वमनपायि एवं ।
सर्वपातकवति किमु वक्तव्यमिति महत्कष्टमिति भावः । महापातकसंघातेन कृपा-
नुदयस्य कैमुत्येन सिड्या अर्थापत्तिरलंकार: "कै मुत्येनार्थसंसिद्धिः काव्यार्था-
पत्तिरिष्यते " इति लक्षणात ॥ ५५ ॥
अथ नवभिः पद्यैः मदनोपालंभमुपवर्णयिष्यन्नादौ प्रसङ्गात्तदवतारयति-
कुतः स्मरप्रेष्यमुपालभे विधुं प्रहर्तुरागः परिघः करोतु किम् ।
हरस्य तस्मिन्नयनानले हुते शिरस्स्थितोऽप्येष करोति किं पुरा ॥५६॥
१३४
कुत इति - स्मरस्य मदनस्य प्रेष्यमाज्ञाविधेयं भृत्यमित्यर्थः । तेन तत्कृता-
यामपि हिंसायां स्वतः तस्यानपराधित्वं व्यज्यते । विधुं चन्द्रम् । कुतः कस्माद्धेतोः ।
उपालभे निन्दामि । उपपूर्वादाङ्पूर्वाच्च लभतेर्लट् । चन्द्रनिन्दायां न किञ्चित्
कारणम् । तस्य मन्मथप्रेष्यतयैवास्मद्रोहकारित्वं न पुनः स्वत एवेति भावः ।
अमुमर्थ अन्यत्र दृष्टान्तयति । आग: अपराध: । तत्प्रयुक्त शिक्षापर्यन्तार्थः ।
दुष्कर्मकारिणि राजादिना प्रयुक्तो दण्ड इत्यर्थः । स तु प्रहर्तुः प्रहारकर्तुः । प्रहार-
रूपापकारं प्रति साक्षान्मुख्यकारणीभूत एव प्रयोज्यो न तत्साधनीभूतदण्डा-
दाविति भावः । परिघ: परिघायुधः । पुरुषप्रयोज्य: स्वयमस्वतन्त्रः । किं करोतु
किं विधत्ताम् । प्रहारनिर्वर्तकं कर्म किं कुर्यादित्यर्थः । परिवाद्यभावेऽपि प्रहरणान्त-
रेण प्रहर्तुं शक्यत्वादिति भावः । यद्वा प्रहारकर्तु: आग इति द्वितीयान्तं
प्रहर्तृकृतमपराधे विषये प्रयुज्यमानप्रहारविरचनरूपं दोषं परिघः किं कुर्यात्
कथं समाधत्ताम् । अतः परिवो न दण्डयस्तद्वदयमपीन्दुर्न निन्द्य इति भावः ॥
ननु भवदुक्तवैपरीत्येन चन्द्र एव मुख्य: प्रहर्ता मदनः पुनः सकृत्प्रेष्य
इत्येव किं न स्यादित्याक्षेपं स्वतः चन्द्रस्यासमर्थत्वं कार्यमुखेन दर्शयति ।
तस्मिन् मदने । हरस्य शिवस्य । नयनानले नेत्राग्नौ । हुते दग्धे सतीत्यर्थः । एषः
चन्द्रः । शिरस्स्थितोऽपि अर्थात् शिवस्येत्यर्थः । मदनदहनसाधननयनस विधवर्ती
सन्नपीति भावः । किं मदनोज्जीवनसाधनं कीदृशं कर्म । करोति पुरा किमकरोत् ।
यावत्पुरा निपातयोर्लट् " इति पुराशब्दयोगाल्लट् । तेन स्वीयामृतेन नयनानल-