2023-03-26 16:29:32 by ambuda-bot
This page has not been fully proofread.
द्वितीयस्सर्गः
१२९
सगर्म्यतेति – हे शशलाञ्छन इन्दो । विषानिमेषांशनयो: कालकूटामृत-
योः । त्वया भवता सह । सगर्म्यता सहजता सहोदरत्वमित्यर्थः । "सगर्थ्यसहजा-
स्समा : " इत्यमरः । नो विशिष्यते न विशेषितो भवति । सर्वेषां सागरोत्पन्नत्वा-
विशेषेण विषेयाशी सगर्म्यता तादृश्येवामृतेऽपीति तुल्यैवेत्यर्थः । तथापि अनु-
बन्धसाम्येऽपि । अनुबन्धनिमित्तकतया कस्यचित् गुणानुकरणे भवितव्ये सकल-
लोकानन्दकस्यामृतस्यानुकरणे मुख्यतया संभाविते सत्यपीति भावः । आद्यस्य
विषस्य अनुकृति अनुकरणम् । किं करोषि कुतः कुरुषे । नैतत्सांप्रतमिति भावः ।
अमुमर्थ सामान्येन समर्थयति । जन्मना उत्पत्त्या जननावसर एवेत्यर्थः । वक्राः
कुटिला: वक्राकारा: दुर्जनाश्च । मलिनानुवर्तिनः मालिनान् मलीमसान् नील-
वर्णान् पापिनश्च अनुवर्तन्ते अनुसरन्तीति तादृशा: । नेति काकुः । भवन्तीति
शेष: । काक्का न भवन्ति किं भवन्त्येवेत्यर्थः । अतस्तवापि उत्पत्तिकाले
एकद्वित्रिकलात्मतायां कुटिलाकारतया तादृशस्य तत्त्वातीतमलीमसक्रूरकाल-
कूटगुणानुकरणं युज्यत एवेति उत्पत्तिसमनन्तरमेव भगवता भूषाकृतस्य
वक्राकरत्वमस्योत्पत्तौ
• । अत्र सोदरयोर्द्वयोः सतोरेक-
मात्रानुकरणरूपस्य चन्द्रकृतस्य विशेषस्य न जन्मवक्रेत्यादि सामान्येन
समर्थनादर्थान्तरन्यासः । श्लेषानुप्राणित इति सङ्करः ॥ ५० ॥
-
सुपेन्दिरास्वस्तरुकौस्तुभादिकं परस्सहस्रं सृजतात्पयोनिधिः' ।
तथापि दोषाकर दुर्यशो निजं न माष्र्ष्टमीष्टे भवदीयसृष्टिजम् ॥५१॥
सुधेति-- हे दोषाकर निशाकर । दोषाणां विरहिहिंसादिरूपाणां
पापानामाकर । पयोनिधि: क्षीरसागर : त्वदुत्पादक इति भावः । सुधा अमृतं
इन्दिरा लक्ष्मी: खस्तरवः मन्दारादयो देवतरवः कौस्तुभो विष्णूपगृहीतो मणि-
विशेषश्च इमानि आदीनि यस्य तादृशम् । सामान्ये नपुंसकं जातावेकवचतम् ।
ईदृशं सकललोकोपकारकं वस्तुजातमिति भावः । आदिपदात् चिन्तामणि-
सुरभ्यादयो गृह्यन्ते । परस्सहस्रं सहस्रसंख्यातीतम् । " परश्शताद्यास्ते येषां परा
८८
2 G. न तत्प्रमार्छुमीष्टे,
1 G. प्रजापतिः
17