This page has not been fully proofread.

१२८
 
रुक्मिणीकल्याणे सव्याख्याने
 
अहो भवानन्तरशान्तपावकं हराक्षिदग्धस्मरभस्ममण्डलम् ।
दहन्ति हा हन्त मरुधुता विधो कराङ्कुराकारभृतः कणा यतः ॥
 
1
 
www.c
 
अहो इति – हे विधो चन्द्र । भवान् त्वम् । अन्तः मध्यदेशे । अशान्तः
अप्रशमितः पावकः वह्निर्यस्मिन् तादृशम् । क्रमात् भस्मीभवने अन्तः सर्वात्मना
भस्मीभावमनापत्तेर्भस्माकारैरपि किञ्चित् सारावशेषेणाशान्तानलावयवोपेतमिति
भाव: । हरस्य शिवस्याक्ष्णा ललाटनेत्रेण दग्धस्य स्मरस्य भस्मनां भसितानां
मण्डलं राशिः । न पुनस्तद्व्यतिरेकेण चन्द्र इति कश्चिदस्तीति भावः । अत्र
हेतुमाह -- यतः यस्माद्धेतो: । मरुता वायुना धुता: कम्पिता: । आनीता इति
यावत् । कणा: वह्निकणा: । कराङ्कुरा: चन्द्रस्य किरणप्ररोहा इति आकारं
स्वरूपं बिभ्रतीति तादृशाः सन्तः । कराकुराः इति विवेचकलोकगृह्यमाणा
उक्तभस्मनामेवाकाराः न पुनश्चन्द्रकिरणा इति किञ्चित्परमस्तीति भावः । दहन्ति
पति । विरहिण इति भावः । हा हन्त महत्कष्टमित्यर्थः । हराक्षिवह्निदाहेन
स्वरूपनाशं प्राप्य भस्मावशेषितस्यापि मदनस्याद्यापि विरहिसन्तापनदौश्शील्य-
व्यपगमाभावेन विरहिणां दुःखनिवृत्तिर्न कदापि इति भावः । यद्वा हा हन्त
महदाश्चर्यमित्यर्थः । बहो: कालाद्दह्यमानस्यापि मदनस्याद्यापि सर्वात्मना भस्मी-
भावाभावे तद्देहस्य कियती सारवत्ता यदद्यापि सारावशेषादग्निमत्ता । भस्मावयवस्य
लक्षद्वितययोजनान्तरं वातोद्भूतानामपि भस्मकणानामनलानपगम इति महदिद-
मद्भुतमिति भावः। अत्र चन्द्रकिरणाङ्कुरेषु तथात्वमपनुत्यारोपितेन मरुदुद्भूत-
साग्निकभसितकणगणेन हेतुना तदुद्भवस्थानभूतस्य चन्द्रमण्डलस्य हरनयनानल-
दग्धमदन।ङ्गभस्ममण्डलत्वस्य साधनादनुमानालङ्कारः । स च कराकुरेश्व-
सत्यत्वपर्यवसायाकारपदाधिगतापह्नवगर्भित इति सङ्करः ॥ ४९ ॥
 
सगर्भ्यता नो शशलाञ्छन त्वया विषानिमेषाशनयोर्विशिष्यते ।
तथापि चाद्यानुकृतिं करोषि किं न जन्मक्का मलिनानुवर्तिनः ॥
 
2 G. ऋतिम्.
 
1. G. हृतः