This page has not been fully proofread.

१२६
 
रुक्मिणीकल्याणे सव्याख्याने
 
शालित्वं दुस्सहव्यथासहनत्वमित्यादिमहामहिमत्वमुच्यते । तदेवोपपादयति । यः
परमेश्वर: । पुरा पार्वतीविरहावस्थायाम् । वियुक्तानां विरहिणां लीलया विलासेन
विरहज्वर परिप्लोषणादिव्यापारेण वियुतोपि विशेषेण युक्तोपि सन् । विरहावस्था -
सम्भावितोद्दीपनविभावाद्यविकलोऽपीत्यर्थः । इन्दौ चन्द्रे । द्विलक्षयोजनान्तराळ-
वृत्तित्वेपि विरहिजनप्राणहारिणीति भावः । जटाटव्या: सटापटलस्य झाटस्य
जूटस्य परस्पर पर्यायपरिवर्तितोन्नतपेटका कारजटाकलापस्येत्यर्थः । कुट्या: कुञ्जस्य,
यद्वा जटाटवीझाटात्मिकाया: कुट्या इत्यर्थः । कुटुङ्गभुवि पटलप्रान्तदेशे
कुटुम्बिनि संसारिणि सति । तत्रैव निरन्तरनिवासशील इति भावः । कुशली क्षेमेण
युक्तस्सन् । अविकल एव सन्निति भावः । समेधते सम्यग्वर्धते । "एध वृद्धौ" इति
धातोर्वर्तमाने लट् । अनेकलक्षयोजनान्तरालवर्तनेऽपि मादृशामीदृशी व्यथा दृष्टा,
न घुर्ये सन्ततं स्वकीयमकुटतटावस्थितेप्यविकलोद्यापि जीवति । अविकलो
वर्धमानश्चेति अहो तस्य महिमातिशय: । अतस्तस्मै भूयोभूयो नमस्ये इति भावः ।
अत्रात्यन्ततापसाधनीभूते चन्द्रे सन्निहितेऽपि तदनुत्पत्तिप्रतीत्या विशेषोक्ति-
रलङ्कारः । वृत्त्यनुप्रासेन संसृष्टि: । "कार्याजनिर्विशेषोक्तिस्सति पुष्कलकारणे
इति लक्षणात् ॥ ४६ ॥
 
अथ कविः सर्गान्तपर्यन्तैः पद्यैः इन्दुमदनमन्दपवनोपालंभं कविनिबद्ध-
वक्तृप्रौढोक्त्या कृष्णमुखेन वर्णयिष्यन्नवतारयति-
अनन्तरं सन्ततदन्तुरीभवदुरन्तसन्तापनिरन्तरान्तरः ।
अमन्ददर्पावयमिन्दुदर्घकौ निनिन्द मन्दं मरुतं च नन्दभूः ॥ ४७॥
 
अनन्तरमिति -- अनन्तरं पूर्वोक्तविधया स्वापकारिचन्द्रादीनामनामन्त्रणे-
नैव स्वयं तत्कृतव्यथाप्रतिपादनानन्तरमित्यर्थः । अयं नन्दभूः नन्दगोपसूनुः
कृष्ण: । सन्ततं अविरतं दन्तुरीभवता निबिडीभूतेन निरन्तरप्रवृत्तेनेत्यर्थः ।
दुरन्तेन अपरिहार्येण सन्तापेन विरहज्वरेण इन्दुमदनमन्दपवनसन्धुक्षितेनेति
भाव: । निरन्तरं निबिडं आन्तरं हृदयं यस्य तादृशस्सन् । अमन्द : अनल्प: दर्पो
गर्वः ययोस्तादृशौ । इन्दुदर्पको चन्द्रमदनौ । मन्दं मरुतं मलयपवनं च । निनिन्द
व्यगर्हयत् । प्रत्येकसंबोधनपूर्वकमधिचिक्षेपेत्यर्थः । अत्र त्रयाणां निन्द्यत्वाविशेषेपि