This page has not been fully proofread.

द्वितीयस्सर्गः
 
८८
 
प्रकारे विधाने वा विशृङ्खलः निरर्गलं [लः तम् ] स्वानुष्ठितप्रतिविधायिप्रत्यर्थि-
रहितमित्यर्थः । क्षणदाधिपं चन्द्रम् । कथं ग्रसेत भक्षयेत् । न ग्रसेतैवेत्यर्थः ।
"गृ निगरणे " इति धातोरात्मनेपदे लिङ् । राहोरप्युक्तविधया विरहिकोटिप्रविष्ट-
तया चन्द्रेणैवनिग्राह्यत्वावश्यम्भावे पूर्वोक्ता मदीयाशंसा न भवेदिति भावः ।
पूर्वोत्तरयोरनयोरेकवाक्येनाक्षेपालङ्कारः ॥ ४४ ॥
 
१२५
 
जगत्मभोरेष जटाटवीधुने र्ललाटवद्वेश्च चमूरुलाञ्छनः ।
अधीत्य शीतोष्णकृतौ कृती कुले व्यनक्ति ते युक्तवियुक्तवर्गयोः ॥
 
जगदिति - शीतं च उष्णं च शीतोष्णे तयोः कृतौ करणे विषये । कृती
कुशल: । अत्यन्तशिशिरीकरणातितापकरणयोर्विचक्षण इत्यर्थः । जगच्छीती-
करणविरहिसन्तापनयोः दृष्टचरत्वादिति भावः । एष चमूरुलाञ्छनः एष चन्द्रः ।
जगत्प्रभोः परमेश्वरस्य । नित्यनिवासस्थानीभूतमस्तकस्येति भावः । जटाटवीधुनेः
जटाजूटनिबद्धाया गङ्गायाः सकाशात् । ललाटवह्नेः नेत्राग्नेश्च सकाशात् । अधीत्य
अभ्यस्य । प्रकरणात् शीतोष्णे इत्यर्थः । सन्ततसन्निहितयो: गङ्गानेत्रानलयोरन्ते-
वासीभूय शीतोष्णरूपे विद्ये परिगृह्येति भावः । ते शीतोष्णे । क्रमेण युक्तयोः
मिलितयोः वियुक्तयोः विरहिणोश्च वर्गयोः स्त्रीपुंसबृन्दयोरित्यर्थः । कुलेऽस्य रतये
यद्वा युक्तानां वियुक्तानां च वर्गयोः युक्तवर्गे शीतमयुक्तवर्गे तापं चेत्यर्थः ।
व्यक्ति प्रकाशयति । विपूर्वात् "अञ्जु व्यक्तिश्लक्ष्णकान्तिगतिषु " "इति
धाती: लट् । अत्र चन्द्रेण युक्तवियुक्तवर्गविनियोजितशीतोष्णाधिगमं प्रति
शिवशिर: स्थिताया गङ्गायाः फाललोचनादव्ययनमहेतुरेव हेतुतया ल्यबा
निर्दिष्टमिति हेतूत्प्रेक्षा व्यञ्जकाभावात् गम्या, यथासंख्येन संसृष्टि: ॥ ४५ ॥
नमो महिम्ने नटते दिनावधौ वियुक्तलीलावियुतोऽपि यः पुरा ।
जटाटवीझाटकुटीकुटुङ्गभूकुटुम्बिनीन्दौ कुशली समेधते ॥ ४६
 
नम इति – दिनावधौ प्रदोषसमये । नटते नृत्यते आनन्दनटनमाचरते ।
तेन शिवस्य नित्यानन्दनिर्भरत्वं व्यज्यते । महिम्ने भूम्ने महेश्वराय ! नमः प्रोऽस्मी-
त्यर्थः । " नमःस्वस्ति" इत्यादिना चतुर्थी । महिम्न इत्यनेन निरतिशयधैर्यातिशय-