This page has not been fully proofread.

१२४
 
रुक्मिणीकल्याणे सव्याख्याने
 
""
 
भुजगाः ।
 
विशृङ्खलं निरर्गलं यथातथा सर्वाशेनेति भावः । गिरन् भक्षयन् सन् । जिह्मगाः
जिह्मग: पवनाशनः इत्यमरः । जिलं कुटिलं यथातथा गच्छन्ति
चरन्ति स्वीयसर्वकृत्यमाचरन्तीति जिह्मगा दुर्जनाश्च । न परोपकारप्रवणाः परेषा-
मुपकारे हिताचरणे प्रवणा: प्रवृत्ता: न नभवन्तीत्यर्थ: । इति एवम् । जगति निरूढां
प्रथां ख्यातिम् । स्वस्य निन्दारूपामिति भावः । मुधा मिथ्याभूताम् । विधास्यति
किन्नु रचयिष्यति किमु । परेषां बहूनां विरहिणामुपकाररूपे राहुणा निर्वर्तिते तस्य
परोपकारित्वख्यात्या जिह्मगा: परोपकारशीला न भवन्तीति प्रथा स्वयमेव
व्यपैतीत्यर्थः । स्वाभ्यवहारे मुख्यफले अनुभुज्यमाने परेषामुपकारोऽप्यनुनिष्पन्नो
भवति । ततश्च जगति चिरनिरूढा भुजगत्वेन सजातीयानामुरगाणां कुटिल-
गन्तृतया सजातीयानां दुर्जनानां चापख्यातिश्च परिहृता भवतीति भावः ।
हन्तेति हर्षे । स च सर्वात्मना चन्द्रनाशे चन्द्रकृता व्यथैव कदापि न स्यादिति,
राहोश्च क्षुधानिवृत्तिस्तज्जातिमात्रस्य दुरपख्यातिनिवृत्तिश्च भवतीति । "हन्त
हर्षेऽनुकम्पायां वाक्यारंभविषादयोः " इत्यमरः । प्रहर्षणं नामालङ्कारः ।
वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् " इति लक्षणात् ॥ ४३ ॥
 

 
८८
 
"
 
66
 
वधूकुचाश्लेषविशेषवञ्चितो विधुन्तुदस्सामिवियोगविक्लवः ।
'वियोगिपीडैक विधाविशृङ्खलं ग्रसेत यदा क्षणदाधिपं कथम् ॥४४॥
 
८८
 
वधूकुचेति - पूर्वोक्तं राहुमुखेन चन्द्रनिग्रहरूपार्थमाक्षिपति । यद्वा
आहोस्वित् । वधूकुचाश्लेष: वनितास्तनपरिरम्भ एव विशेष: सम्भोगभेद: तेन
वञ्चितः विनाकृतः । अमृतपरिवेषणावसरे जगन्मोहनस्त्रीवेषधारिणा विष्णुना राहो:
शिरोमात्रावशेषिततया स्तनपरिरम्भसम्भावनाया एवाभावादिति भावः । अत एव
सामि अर्धाशेन । "सामि त्वर्धे जुगुप्सने " इत्यमरः । वियोगेन विरहेण विक्लब:
विह्वलः । नायिकासल्लापाघरास्वादादिसम्भोगसम्भवेऽपि स्तनपरिरम्भादीनामभावेन
अलब्धविरहावश्यम्भावेनार्धवियोगानपायादिति भावः । विधुन्तुद: राहुः ।
वियोगिनां विरहिणां सामान्यतो विरहिजनमात्रस्येत्यर्थ: । पीडाया व्यथाया एकस्या
मुख्यभूतायाः केवलाया वा स्वात्मकृत्यत्वेन प्रसिद्धाया इति भावः । विधायां
1 A. वियोगबाधक.