This page has not been fully proofread.

द्वितीयस्सर्गः
 
१२३
 
मज्जनं सलिलनिमज्जनम् । कुतः स्यात् कथं भवेत् कदापि न भवेदित्यर्थः ।
अन्यसन्तारणस्य स्वतो मज़नस्यासंभावितत्वादिति भावः । अत इयं मदीया
प्रार्थना न फलिष्यतीति भावः । अत्र स्वेनैवाशंसितस्य प्रार्थितस्य च स्वय-
मेवाक्षेपादाक्षेपालङ्कारः । "आक्षेप: स्वयमुक्तस्य प्रतिषेधो विचारणात् । "
इति लक्षणात् । श्लेषेण सङ्करच ॥ ४१ ॥
 
घनावलीयं क्षणमर्धमेव वा कठोरवृत्ति क्षणढ़ाकुटुम्बिनम् ।
 
पिधाय जायेत सम प्रियाय किं मुदेऽथ वा स्यात्किमु मेघसन्ततिः ॥
 
-
 
घनावलीति – इयं परिदृश्यमाना । घनावली मेघमाला । कठोरा क्रूरा
विरहिजनपीडयित्री वृत्ति: व्यापारो यस्य तादृशम् । अत्यन्ततापकारिणमित्यर्थः ।
क्षणदया कुडुम्बिनं गृह्मेधिनं निशापतिमित्यर्थ: । क्षणं क्षणकालमात्रं
वा । अर्धमेव वा अर्ध क्षणकालं वा । पिधाय तिरोधाय । मम प्रियाय
प्रीतये, चन्द्रदर्शनजनितदुःखनिवृत्तये । तादर्थ्ये चतुर्थी । स्यात् किं भवेत्
किमु । क्षणमात्रं वा वनेन चन्द्रे तिरोहिते तावन्मात्रं वा निवृत्तदुःखो भवेयमिति
भावः । अमुमर्थमाक्षिपति । अथवा मेवसन्ततिः वनावलिः । मे मम रुक्मिणी-
विरहार्तस्येति भावः । मुदे प्रीतये । स्यात् किं भवेत् किं । न भवेदेवेत्यर्थः ।
मेघमालायाः स्वयमेव चन्द्रादप्यत्यन्तं विरहिजनपीडयितृत्वस्वाभाव्यान्मत्कृते
तिरोधानं न कुर्यादिति भावः । मुदे प्रीतये । स्यात् किं न स्यात् । व्यथाकारिण-
श्चन्द्रस्य तिरोधानार्थसन्निधापितस्य तस्यैव मेघस्य चन्द्रादप्यतिहृद्यत्वेन तथाविधा-
शंसनमेव महतेऽनर्थाय भवेदिति भावः । अत्र स्वोक्तस्यार्थस्य स्वयमाक्षेपादा-
क्षेपालङ्कारः । इष्टार्थोद्यमादनिष्टलाभरूपो विषमालङ्कारः ॥ ४२ ॥
 
विधं तुदंतं किरणैर्वियोगिनो विधुन्तुदो हन्त गिरन्विशृंखलम् ।
परोपकारप्रवणा न जिलगा इति प्रथां किन्नु मुधा विधास्यति ॥
 
विधुमिति - विधुन्द: राहु: । स्वत एव चन्द्रहिंसक इति भावः । किरणैः
करैः साधनैः । वियोगिनः विरहिजनान् । तुदन्तं पीडयन्तम् । विधुं चन्द्रम् ।
1 G. किं न.