This page has not been fully proofread.

द्वितीयस्सर्गः
 
१२१
 
'निरस्तचक्रमणयो निमेषतो हठादधिक्षिप्ततरराक्षसंगतिः ।
मनोरथ : शीर्यति हन्त मामक: समीरपोतेऽपि समीपमेयुषि ॥ ३९ ॥
 
निरस्तेति – मामक: मदीयः । मनश्चित्तमेव रथ: स्यन्दनः कर्ता ।
समीरपोते मलयपवने ईषद्वाते । समीपं सन्निकृष्टदेशम् । एयुषि प्राप्तवति सत्यपि ।
निमेषत: त्रुटिमात्रेण । निरस्त: निराकृतः चक्रे सुदर्शने प्रणय: प्रेमा चक्रायुधा-
दानोपलालनादिश्रद्धेति भावः । येन तादृशः । अन्यत्र निरस्तचक्रैः रथाङ्गैः
प्रणय: संसर्गः अक्षे योजनं यस्य तादृशः । प्रशिथिलितचक्राक्षबन्ध इति भावः ।
तथा हठात् बलात्कारेण । अविक्षिप्ततरा अतिदूरनिरस्ता अक्षैश्चक्षुरादिभि-
रिन्द्रियैः सह सङ्गतिः संसर्ग: यस्य तादृशस्सन् । आत्मा मनसा संयुज्यते
मन इन्द्रियेणेति विषयावबोधहेतुभूतचक्षुरादिसंसर्गशून्य इत्यर्थ: । बाह्यविषयज्ञान-
शून्य: केवलरुक्मिणीचिन्तननिरत इति भावः । अन्यत्र हठात् अधिक्षिप्ततरा
अक्षाणां स्यन्दनाधारदारुविशेषाणां सङ्गतिः मेलनं कूबरोपरि पीठादिसम्बन्ध
इत्यर्थः । यस्य तादृशश्च सन् । शीर्यति शिथिलीभवति । हन्त कष्टम् ।
अत्र हरिमानसारोपितस्य चक्राक्षादिशताङ्गसङ्गतस्य प्रकृतेऽप्यसंभावितस्पन्दनस्य
स्यन्दनस्य अस्पृशतापि वातपोतेन दृढतरबन्धोत्सादनविशरणदूरनिरसनादेश्च
यो विरोधस्तस्य हरिचेतसो मलयमारुतसमागमजनितव्यथया विषयेष्वप्रवृत्त्या
निजायुधानादरेण चाभासीकरणाद्विरोधाभासो रूपकानुप्राणित इति सङ्करः ॥ ३९॥
वृषाकपायीप्रणयागसि व्यथां विचिन्त्य मन्दानिलतो वितर्कये ।
व्यधत्त वातंत्र्यवहभं हरो विभूषणं विभ्रमतल्पमच्युतः ॥ ४० ॥
 
1 G. निरस्तचक्रे.
 
16
 
वृषाकपायीति – हरः शिवः । अच्युतो विष्णुश्च । वृषाकपाय्योः
लक्ष्मीपार्वत्योः। "वृषाकपाय्यौ श्रीगौर्यो" इत्यमरः । प्रणयागसि प्रणयापराधे सति ।
यदाकदाचित्संभाविते सतीत्यर्थः । मन्दानिलत: मलयपवनात् । व्यथां पीडाम् ।
विचिन्त्य संभाव्य । इत्थं व्यथा संपत्स्यते इत्थंकृते निवर्तिष्यत इति उत्पत्स्य-
मानतया परिह्रियमाणतया च विचार्येति भावः । वातन्धयानां सर्पाणां