2023-03-26 16:29:29 by ambuda-bot
This page has not been fully proofread.
द्वितीयस्सर्गः
तो महीयान् " इति वेदरूपप्रमाणमात्रेण न पुनः प्रत्यक्षेणेत्यर्थः । निरणायि निश्चि-
तः । प्रमाणान्तरानुपबृंहितश्रुतिरूपशब्दप्रमाणगोचरीकृत इत्यर्थः । असौ स कृष्ण-
इत्यर्थः । यः पुरेति पूर्वमुक्त्या असावित्यनन्तर मद्येत्यध्याहार्यम् । अद्य रुक्मिणी-
विरहावस्थायाम् । कृशोदर्या: रुक्मिण्या : तादृशा तादृक्षेण तथाविधदेहकार्य -
कारिणेत्यर्थः, अयोगेन विरहेण कर्शितः कार्य प्रापितः सन् । जनैः कर्तृभिः ।
विरहावस्थामध्यक्षीकुर्वद्भिरिति भावः । दृशा चक्षुषा, चाक्षुषप्रत्यक्षेणापीत्यर्थः ।
तथाविधः अत्यन्ताणुरूप: अतिकृशतयेत्यर्थ: । ददृशे दृष्टिविषयीचक्रे । "दृशिर्
प्रेक्षणे " इति धातोः कर्मणि आत्मनेपदे लिट् । आभ्यां पद्याभ्यां कार्य नामावस्था
प्रतीयते । " कार्य तु स्मरसन्तापविहिता तनुता तनो: । " इति लक्षणात् । अत्र
दृशा ददृश इति प्रत्यक्षविषयस्यैव अत्यन्ताणुत्वासंबन्धेऽपि सम्बन्धवर्णनादति-
शयोक्तिः । प्रत्यक्षप्रमाणोपोलित : शब्दरूपः प्रमाणालङ्कारश्च ॥ ३१ ॥
जनार्दनो निर्दयमर्दिताशयः स्वजन्मना हन्त सुगन्धिधन्वना ।
भवेत्प्रमोदाय पराजयस्तादिति प्रतीति निरधारयन्मुधा ॥ ३२ ॥
-
जनार्दन इति – जनार्दन : कृष्ण: । जनान् पापिन: अर्दयति नरकादिषु
नियुज्य पीडयतीति वा । जनानुत्पन्नानर्दयतीत्युक्त्या उत्पादयत्यर्दयति
चेत्यर्थः । उत्पत्तिभङ्गयोरान्तरालिकतया स्थितेरपि सङ्ग्रहः । सृष्टिस्थिति-
पालनकारीति वा; जनान् पुण्यजनान् यातुधानान् ; नामैकदेशे नामग्रहणात्
निखिलराक्षसनिग्राहक इति वार्थ: । यद्वा जनानू कामिन : अर्दयति मदनरूपं
सुतं रमायामुत्पाद्य तन्मुखायुवजनं व्यथयितेत्यर्थः । इतरव्यथार्थं स्वयं
पुत्रमुत्पाद्य स्वयं तेनैवमर्दित इति भवितव्यमेवेत्थमिति भावः । स्वजन्मना
निजसुतेन । सुगन्धि कुसुमं धन्व यस्य तादृशेन मदनेन । निर्दयं निरनुक्रोशं
यथा तथा । पिता पुत्र इति अनुबन्धमप्युत्सृज्येति भावः । मर्दितः दारितः
आशय: हृदयं यस्य तादृशस्सन् । सुतात् पुत्रात् । पराजय: पराभव: । अर्थात्
पितुरिति लभ्यते । प्रमोदाय हर्षाय । न तु दु:खायेति भावः । भवेत् स्यात् ।
इति एवंरूपाम् । प्रतीतिं लोकप्रख्यातिम् । "पुत्रादिच्छेत् पराभवम्" इति लोक-
1.स.