This page has not been fully proofread.

११४
 
रुक्मिणीकल्याणे सव्याख्याने
 
प्रतिपदं । विद्वेषपदं विरोधपात्रं । व्यधत्त अकरोत् । विपूर्वाद्दधातेरात्मने पदे
लुङ् । अत्र श्लेषमूलकतया शत्रो: शत्रुत्वेनाध्यवसिते चन्द्रे सुहृत्वाद्यभजन्निति
सूर्यबुद्धिकरणरूपया तच्छत्रुत्वेनाध्यवसिते कोकिलरुते च विद्वेषकरणरूपया
च स्वक्रियया परेषां "शत्रो: शत्रौ च मित्रत्वं तच्छत्रौ शत्रुतामपि । तन्मित्रे
मित्रतां कुर्वन्न कदाचन सीदति" । [इति] नीतिमार्गानुवर्तनरूपस्य सदर्थस्य
बोधनात् सदर्शनिबन्धना निदर्शना । " स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव तु सा
परा " इति लक्षणात् ॥ २९ ॥
 
विशामधीशस्य वियोगसंज्वरस्तथा ततानातनुतानवं तनौ ।
यथामुना मन्दसमीरणादपि प्रकम्पसम्पलघु पर्यचीयत ॥ ३० ॥
 
विशामिति --- वियोगसंज्वर: विरहज्वर: कर्ता । विशां जनानां अधीशस्य
नायकस्य कृष्णस्य । "द्वौ विशौ वैश्यमनुजौ " इत्यमरः । तनौ देहे । तथा तावत् ।
यावत् कार्य वक्ष्यमाणमन्दपवनस्पन्दमात्रतः प्रकम्पोत्पत्यनुकूलं भवति तावदिति
भावः । अतनु अतिशयितं । तानवं कार्यं । ततान अतनोत् । तनोतेः कर्तरि लिट् ।
तदेवाह – अमुना कृष्णेन । विरहातिकर्शितेनेति भावः । मन्दसमीरणात् मलय-
पवनादपि मृदुतरं वहता समीरेणापि । प्रकम्पस्य वेपथुरूपस्य सात्विकभावस्य
संपत् अतिशय: । अन्यत्र विधूननातिशय: । लघु द्रुतम् । "लघु क्षिप्रमरन्द्रुतम्'
इत्यमरः । पर्यचीयत परिचिताभवत् । असकृत् अनुभवगोचराभवदित्यर्थः ।
विरहावस्थाकालिकं मन्द पवनपरिचयजनितवेपथुरूपपरिदध्य[दृश्य]मानसात्विक
भावाध्यवसितेनात्यल्पानिलसंसर्गेऽपि वातनिबद्रसूक्ष्मपटवत्कम्पनेन तदनुगुणं
कायकार्यमनुमीयत इति भावः । अनुमानमेवालङ्कारः ॥ ३० ॥
 
अणोरणीयानिति यो हरिः पुरा पुराणवाण्या निरणायि केवलम् ।
तथाविधोऽसौ दहशे दृशा जनैः कृशोदरीतादृगयोगकर्शितः ॥ ३१ ॥
 
अणोरिति - यः हरिः कृष्णः परब्रह्मरूपतया श्रुतिप्रतिपादित इत्यर्थः ।
पुरा अद्यतनविरहावस्थात: पूर्व केवलब्रह्मभावे इत्यर्थः । अणोः परमाणोरपि ।
अणीयान् अतिक्रशीयान् । इति पुराणवाण्या केवलं श्रुतिमात्रेण । "अणोरणीयान्मह