This page has not been fully proofread.

११२
 
रुक्मिणीकल्याणे सव्याख्याने
 
प्रत्यक्षिपत् । निरुपसर्गपूर्वात् "असु क्षेपणे " इति धातोः कर्तरि लङ् ।
तथा ऋक्षाधिपति नक्षत्रनाथं चन्द्रम् । "नक्षत्रमृक्षं भं तारं " इत्यमरः ।
अन्यत्र ऋक्षाणां भल्लूकानां अधिपति जाम्बवन्तं च निनिन्द समदूषयत् ।
विरहिणो मन्दपवनचन्द्रयोः तापोत्कर्षाधायकतया तयोर्निन्दाया: बाहुकार्येन
स्वस्थानप्रच्युतपरित्यागस्य अरतिश्रमादिना भूषातिरस्करणस्य च संभावितत्वेऽपि
श्लेषमूलतयाध्यवसितं हनूमन्निन्दनं अङ्गदनिरसनं जाम्बवन्निन्दनं परमस्यैव
कृष्णस्य पूर्वतनरामावतारे सीताविरहावस्थायां नासीत् तेषां सहायत्वेन स्वी-
करणात् । इह तु अध्यवसायमूलकतया हनुमन्निन्दादीनामपि संभवात्, हृद्यवस्तु-
विद्वेषरूपा अरतिर्बलवत्तरेति भावः । तत् तस्मात्कारणात् । विदेहकन्याविरहादपि
सीताविरहावस्थातः । विदर्भसुभ्रूविरहेण रुक्मिणी विरहेण । विव्यथे व्यथितो
बभूव ।
व्यथ हिंसायाम् " इति धातोः दुःखार्थादात्मने पदे लिट् । अत्र समीर-
पोतगर्हणादिरूपबलवत्तरकार्यमुखेन तद्धेतुभूतविरहव्यथाया बलवत्तरत्वानुमाना-
दनुमानालङ्कारः, श्लेषोत्थापित इति सङ्करः ॥ २७ ॥
 
८८
 
"
 
निरास तारापतिमेष नो मुदन्नवाञ्जनानन्दनकेलिषु व्यधात् ।
बबन्ध चक्रेऽप्यरति तदा ध्रुवं रघूहीभावजवासनावशात् ॥ २८ ॥
 

 
निरासेति – एष: कृष्ण: । रामकृष्णादिरूपावतार भेदेऽपि वस्तुगत्या
सर्वत्रैकरूप इति भावः । तदा रुक्मिणीविरहावस्थायामित्यर्थः । रचूद्वहीभावे
रामत्वे रामात्मनावस्थितिसमय इति भावः ; जायत इति तादृश्या: वासनायाः
संस्कारस्य वशात् अधीनतया उद्बोधादिति भावः । तारापति चन्द्रं वालिनं च ।
निरास निराचकार अधिचिक्षेप जघान च । तथा जनान् प्राणिनः आनन्दयन्ति
हर्षयन्तीति तादृशीषु केळिषु उद्यानविहृतिषु नवां नवनवोद्भूताम् । मुदं प्रीतिम् । न
व्यधात् नाकरोत् । विपूर्वाद्दधातेर्लङ् । अतिरमणीयतया नयनासेचनकेष्वपि प्रीतिं
नाभजदिति भावः । अन्यत्र अञ्जनानन्दनस्य अञ्जनाप्रसूनो: हनुमतः केळिषु
विहृतिषु अक्लेशकृतेषु समुद्रतरणसीतासमाश्वासनवनभंजनरक्षोनिधनादिव्या-
पारेश्वित्यर्थ: । मुदं वा हर्ष च, वाकारश्चकारार्थः । नो न व्यधात् । द्वौ नञौ