2023-03-26 16:29:28 by ambuda-bot
This page has not been fully proofread.
द्वितीयस्सर्गः
१११
6
धारणस्य क्षेमसाधनप्रतिपादनात् शुकवाक्यस्य शुभोत्तरत्वसंभवात् । अन्यत्र शुभं
श्रेयः ब्रह्मज्ञानलक्षणं उत्तरं समनन्तरभावि यस्या इति शुभोत्तरा तादृशी उक्तिर्यस्य ।
तादृशं शुकंक] महर्षिप्रवर्तितभागवतश्रवणेन ब्रह्मज्ञानोदयादिति भावः । शुकं कीरं
व्याससूनुं मुनिं च । उपेक्षत, उपेक्षाविषयीचकार निनिन्देति भावः ।
उपपूर्वादवज्ञार्थात् " ईक्ष दर्शने " इति धातोरात्मनेपदें लङ् । तथा पुण्डरीके कमले
पुण्डरीकनामनि भगवद्भक्त महर्षो । नर्म क्रीडां प्रीतिमिति यावत् । न निर्ममे न
चकार । निपूर्वात् [माङ : ] कर्तरि लिट् । कमलमेघादीन मुद्दीपनविभावतया विर-
होद्रेककारितया तद्दर्शनश्रवणादिना हरिः व्यथितोऽभूदियर्थ: । नारदस्य शुकस्य
पुण्डरीकाख्यमहर्षश्च परमभागवतत्वेन तेञ्वप्रीतिनिन्दोपेक्षाकरणं कथं, कथं
वा सर्वेन्द्रियाह्लादकेषु मेवादिष्वप्रीतिरिति अमुमर्थ समर्थयति । योगिनः
विरहिण: अन्यत्र योगिनः परिशीलितराजयोगहठयोगा आत्मविदः । प्रिये दर्शनी -
येऽपि वस्तुतो रमणीयेऽपीत्यर्थः । प्रीतिं सुखम् । नोशन्ति न प्राप्नुवन्ति ।
संभोगशृङ्गारे यानि यानि सुखातिशयाधायकानि भवन्ति सर्वाण्यपि तानि
प्रियामेलनाभावे विरहव्यथाया एव पोषकाणि भवन्तीति सुव्यक्तमित्यर्थः ।
अन्यत्र प्रियेऽपि इन्द्रियालादने विषये सुहृद्यपि । प्रीतिं विशेषाभिमानं उत्कण्ठां
वा पक्षपातं वा । नोशन्ति न प्राप्नुवन्ति । जितेन्द्रियाणां अरिमित्रोदासीन-
त्वादिभेदमन्तरा सर्वत्र समदृष्टीनां निर्ममानां निरीहाणां निर्द्वन्द्वानां परमयोगिनां
कुत्रापि विशेषाभावेन सुखदुःखयोरनुत्पादादिति भावः । अत्र विशेषरूपाया:
मेवाद्यप्रीतेः नारदाद्यप्रीतेश्च प्रियेऽपीत्यादि सामान्येन समर्थनादर्थान्तरन्यासः
श्लेषानुप्राणित इति सङ्करः ॥ २६ ॥
समीरपोतं समर्हताङ्गढ़ निरास्थक्षाधिपतिं निनिन्द् यत् ।
विदेहकन्याविरहादपि प्रभुर्विदर्भसुभ्रूविरहेण विव्यथे ॥ २७ ॥
समीरेति - प्रभुः श्रीकृष्णः । यत् यस्मात्कारणात् । समीरपोतं
" पोतः पाकोऽर्भको डिम्भ: "
गई कुत्सायाम् " इति धातो-
वालिसूनुं च । निरास्थत्
मन्दमारुतं वायुसुतं हनूमन्तं च ।
इत्यमरः । समगर्हत अभ्यदूषयत् ।
रात्मनेपदे
.
लङ् । तथा अङ्गदं केयूरं